________________
स्याद्०
॥२०॥
स्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवायएव कृतः स्यात् । भेदे - पुनरपि समवायस्य न नियतसम्बन्धिसंबन्धत्वम् । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते ।
नाप्यक्रमेण - नह्येको भावः सकलकालकलाकलापभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा, क्रमपक्षभावी दोष:: अकरणे त्वर्थक्रियाकारित्वाऽभावाद्-अवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिवलाद् व्यापक निवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्यायं सत्त्वं निवर्तयति इति नैकान्तनित्यपक्षो युक्तिक्षमः ।
एकान्ताऽनित्यपक्षोऽपि न कक्षीकरणाऽर्हः । अनित्यो हि प्रतिक्षणविनाशीः स च न क्रमेणाऽर्थक्रियासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाऽभावात् । क्रमो हि पौर्वापर्यम्, तच्च क्षणिकस्याऽसम्भवि । अवस्थितस्यैव हि नानादेशकालव्याप्तिः - देशक्रमः कालक्रमश्चाभिधीयतेः न चैकान्तविनाशिनि साऽस्ति । यदाहु:-- -“यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते " ॥ १ ॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः संभवतिः सन्तानस्याऽवस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाऽक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः ।
Jain Education International
For Private & Personal Use Only
112 11
www.jainelibrary.org