SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥२०॥ स्याभ्युपगन्तव्यः । तथा च सति उपकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवायएव कृतः स्यात् । भेदे - पुनरपि समवायस्य न नियतसम्बन्धिसंबन्धत्वम् । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते । नाप्यक्रमेण - नह्येको भावः सकलकालकलाकलापभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा, क्रमपक्षभावी दोष:: अकरणे त्वर्थक्रियाकारित्वाऽभावाद्-अवस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिवलाद् व्यापक निवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति; अर्थक्रियाकारित्वं च निवर्तमानं स्वव्यायं सत्त्वं निवर्तयति इति नैकान्तनित्यपक्षो युक्तिक्षमः । एकान्ताऽनित्यपक्षोऽपि न कक्षीकरणाऽर्हः । अनित्यो हि प्रतिक्षणविनाशीः स च न क्रमेणाऽर्थक्रियासमर्थः; देशकृतस्य कालकृतस्य च क्रमस्यैवाऽभावात् । क्रमो हि पौर्वापर्यम्, तच्च क्षणिकस्याऽसम्भवि । अवस्थितस्यैव हि नानादेशकालव्याप्तिः - देशक्रमः कालक्रमश्चाभिधीयतेः न चैकान्तविनाशिनि साऽस्ति । यदाहु:-- -“यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते " ॥ १ ॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः संभवतिः सन्तानस्याऽवस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाऽक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः । Jain Education International For Private & Personal Use Only 112 11 www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy