SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ स्याद् नाप्यक्रमेणार्थक्रिया क्षणिके संभवति । सोको वीजपूरादिक्षणो युगपदनेकान् रसादिक्षणान् जन यन् एकेन स्वभावेन जनयेत् , नानास्वभावैर्वा ?। यद्येकेन, तदा तेषां रसादिक्षणानामेकत्वं स्यात् । एकस्व॥२१॥ भावजन्यत्वात् । अथ नानास्वभावैजनयति--किश्चिद्रूपादिकमुपादानभावेन, किञ्चिद्रसादिकं सहकारित्वेन, इति चेत् ; तर्हि ते स्वभावास्तस्याऽऽत्मभूता अनात्मभूता वा ?। अनात्मभूताश्चेत् स्वभावत्वहानिः। यद्यात्मभू| ताः, तर्हि तस्यानेकत्वम् ; अनेकखभावत्वात् ; स्वभावानां वा एकत्वं प्रसज्येत; तदव्यतिरिक्तत्वात् तेषां; | तस्य चैकत्वात् । अथ य एव एकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्य18 स्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कर्य च कथमिष्यते क्षणिकवादिना ? । अथ || नित्यमेकरूपत्वादक्रम, अक्रमाञ्च क्रमिणां नानाकार्याणां कथमुत्पत्तिः, इति चेत् , अहो स्वपक्षपाती देवानां | | प्रियः-यः खलु स्वयमेकस्माद् निरंशाद् रूपादिक्षणलक्षणात् कारणाद् युगपदनेककारणसाध्यान्यनेककार्याa ण्यङ्गीकुर्वाणोऽपि, परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्मात् क्षणिकस्यापि भावस्याऽक्रमेणार्थक्रिया दुर्घटा। इत्यनित्यैकान्तादपि क्रमाक्रमयोप्पकयोनिवृत्त्यैव व्याप्याऽर्थक्रियाऽपि व्यावर्तते; तद्यावृत्तौ च ॥२१॥ सत्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः। ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy