SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्याद् व्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति । तथाहि--घट एव तावत् पृथुबुनोदराद्याकारवान् प्रतीतिविषयीभवन् । ॥१२॥ सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया, घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याऽऽख्यां लभते। | स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् विशेषव्यपदेशमश्नुते । इति । न सामान्यविशेषयोः पृथपदार्थान्तरत्वकल्पनं न्याय्यम् ; पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् । न च । 8| धर्माः धर्मिणः सकाशादत्यन्तं व्यतिरिक्ताः। एकान्तभेदे विशेषणविशेष्यभावाऽनुपपत्तेः; करभरासभयोरिव धर्मधर्मिव्यपदेशाऽभावप्रसङ्गाच्च । धर्माणामपि च पृथकपदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थाऽऽनअन्त्यप्रसङ्गः, अनन्तधर्मकत्वाद् वस्तुनः। ___तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनववुध्यमाना अकुशलाः-अतत्त्वाभिनिविष्टदृष्टयः,तीर्थान्तरीयाः; स्खलन्ति-न्यायमार्गाद् भ्रश्यन्ति, निरुत्तरीभवन्तीत्यर्थः । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्य-8 ते। किं कुर्वाणाः ?, द्वयम्--अनुवृत्तिव्यावृत्तिलक्षणं प्रत्ययद्वयं वदन्तः । कस्मादेतत्प्रत्ययद्वयं वदन्तः ?, इत्याह-परात्मतत्त्वात्-परौ--पदार्थेभ्यो व्यतिरिक्तत्त्वादन्यौ, परस्परनिरपेक्षौ च यो सामान्यविशेषौ, तयोयंदात्मतत्त्वं--स्वरूपम् , अनुवृत्तिव्यावृत्तिलक्षणं, तस्मात्-तदाश्रित्येत्यर्थः; “गम्ययपः कर्माधारे" ॥२।२।७४॥ इत्यनेन पञ्चमी । कथंभूतात् परात्मतत्वाद् ?, इत्याह--अतथाऽऽत्मतत्त्वात्-मा भूत् पराभिमतस्य परात्मतत्त्व- | स्य सत्यरूपतेति विशेषणमिदम् । यथा--येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं, न तथा--तेन प्रका ॥१२॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy