SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥२०२॥ इति वचनाद् यावन्तश्च यतो मुक्तिं गच्छन्ति जीवास्तावन्तोऽनादिनिगोदवनस्पतिराशेस्तत्राऽऽगच्छन्ति । नच तावता तस्य काचित परिहाणिनिगोदजीवाऽनन्त्यस्याऽक्षयत्वात । निगोदस्वरूपं च समयसागरा अवगन्तव्यम् । अनाद्यनन्तेऽपि काले ये केचिनिस्ताः, निर्वान्ति, निर्वास्यन्ति च ते निगोदानामनन्तभागेऽपि न वर्त्तन्ते, नाऽवर्तिषत, न वय॑न्ति । ततश्च कथं मुक्तानां भवागमनप्रसङ्गः?, कथं च संसारस्य रिक्तताप्रसक्तिरिति ?, अभिप्रेतं चैतद् अन्ययूथ्यानामपि । यथा चोक्तं वार्तिककारेण "अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वाद् अशून्यता ॥ १ ॥ अन्त्यन्यूनातिरिक्तत्वैर्युज्यते परिमाणवत् । वस्तुन्यऽपरिमेये तु नूनं तेषामसम्भवः ।। २ ।।" इति काव्यार्थः॥ अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्याऽन्योऽन्याऽनुगतसर्वनयमयतया मात्सर्याऽभावमाविर्भावयति अन्योऽन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः ॥ नयानशेषानविशेषमिच्छन् न पक्षपाती समयस्तथा ते ॥३०॥॥२०२॥ प्रकर्षेण उद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति प्रबादाः । यथा येन प्रकारेण, परे भवच्छासनाद् ००००००००००००००००००००००००००००००००००००००००००. Jain Ede Intemational For Private & Personal Use Only ww a library.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy