________________
स्याद्
॥१०॥
थिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थ्यमिवाऽऽस्थाय, तान् प्रति हितशिक्षामुत्तरार्धेनोपदिशति-तथापि त्वदाज्ञाप्रतिपत्तेरभावेऽपि, लोचनानि-नेत्राणि, संमील्य-मिलितपुटीकृत्य,सत्यं--युक्तियुक्तं, नयवर्त्म-न्यायमार्ग, विचारयन्ता--विमर्शविषयीकुर्वन्तु । ___अत्र च विचारयन्तामित्यात्मनेपदेन फलवकर्तृविषयेणैवं ज्ञापयत्याऽऽचार्यो यदवितथनयपथविचारणया तेषामेव फलं, वयं केवलमुपदेष्टारः । किं तत्फलम् ?, इति चेत् ; प्रेक्षावत्तेति ब्रूमः। संमील्य विलोचनानीति
च वदतः प्रायस्तत्त्वविचारणमेकाग्रताहेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः। अथवा अयमुपदे| शस्तेभ्योऽरोचमान एवाऽऽचार्येण वितीर्यते; ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनाऽऽयतिसुखत्वाद् | भवद्भिर्नेत्रे निमील्य पेय एवेत्याकूतम् ।
ननु च यदि पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकता, तत्किमर्थं तान् प्रत्युपदेशक्लेश इति । २ नैवम् । परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रुचिमरुचिं वाऽनपेक्ष्य हितोपदेशप्रवृत्तिदर्शनात् ; | तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात् । न च हितोपदेशादपरः पारमार्थिकः परार्थः । तथा चार्षम्____ "रूसउ वा परो, मा वा, विसं वा परियत्तउ । भासियव्वा हिया भासा सपक्खगुणकारिया" ॥१॥
उवाच च वाचकमुख्यः| "न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति" ॥१॥
॥१०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org