SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्याद्० अथ प्रस्तुतगुणस्तुतिः सम्यकपरीक्षाक्षमाणां दिव्यदृशामेवौचितीमश्चति, नाऽर्वाग्दृशां भवादृशामित्या- 181 ऽऽशङ्कां विशेषणद्वारेण निराकरोति--यतोऽयं जनः परीक्षाविधिदुर्विदग्धः-अधिकृतगुणविशेषपरीक्षणविधी दुर्विदग्धः-पण्डितंमन्य इति यावत् । अयमाशयः--यद्यपि जगद्गुरोर्यथार्थवादित्वगुणपरीक्षणं मादृशां मतेरगोचरः, तथापि भक्तिश्रद्धाऽतिशयात् तस्यामहमात्मान विदग्धामव मन्य इति: विशुद्धश्रद्धाभक्तिव्यक्तिमात्र स्वरूपत्वात् स्तुतेः; इति वृत्तार्थः ॥ २॥ ___अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितवान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः, तानपि तत्त्वविचारणां प्रति शिक्षयन्नाह गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥ अमी इति-'अदसस्तु विप्रकृष्टे ' इति वचनात् तत्त्वातत्त्वविमर्शबाह्यतया दूरीकरणाहत्वाद् विप्रकृष्टाः, परे-कुतीथिकाः, भवन्तं त्वाम् , अनन्यसामान्यसकलगुणनिलयमपि; मा ईशं शिश्रियन्-मा स्वामित्वेन प्रति| पद्यन्ताम् । यतो गुणेष्वमूयां दधतः-गुणेषु बद्धमत्सरा, गुणेषु दोषाऽऽविष्करणं ह्यमूया; यो हि यत्र मत्सरी भवति स तदाश्रयं नानुरुध्यते, यथा माधुर्यमत्सरी करभः पुण्ड्रेक्षुकाण्डम् ; गुणाश्रयश्च भवान् । एवं परती २ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org,
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy