SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१६४॥ विषयविभागविचारणया इति बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिकाऽऽधिगमिकाऽन्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनः, तैरेव वेदितुं शक्यं वेद्यं परिच्छेद्यम् । न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाणानिशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यादर्शनवासनादूषितमतितया यथास्थितवस्तुतत्त्वाऽनवबोधेन | बुधरूपत्वाऽभावात् । तथा चागमः "संदसदविसेसणाउ भवहे उजदिच्छि ओवलंभाउ । णाणफलाभावाउ मिच्छादिटिस्स अण्णाणं" ॥ १ ॥ ____ अत एव तत्परिगृहीतं द्वादशाङ्गमपि मिथ्याश्रुतमामनन्तिः तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्त्वो-18 पलम्भसंरम्भात् । सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक्श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशानुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्याऽप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् । तथा हि किल वेदे- "अजैर्यष्टव्यम्" इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाचकतया व्याचक्षते, सम्यग्दृशस्तु जन्माऽप्रायोग्यं त्रिवार्षिकं यवत्रीह्यादि, पञ्चवार्षिकं तिलममरादि, सप्त वार्षिकं कङ्गुसपंपादिः धान्यपर्यायतया पर्यवसाययन्ति । अत एव च भगवता श्रीवर्द्धमानस्वामिना, “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्यसंज्ञाऽस्ति" इत्यादिऋचः श्रीमदिन्द्रभूत्यादीनां द्रव्यगणधरदेवानां जीवादिनिषेधकतया प्रतिभासमाना अपि तयवस्थापकतया व्याख्याताः। १ श्रीविशेषावश्यकभाष्यम् , गाथा ११५।२ सदऽसदऽविशेषणात् भवहेतुयद्दच्छितोपलम्भात । ज्ञानफलाभावान मिथ्यादृष्टेरज्ञानम् ।। १६४॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy