________________
स्याद्
॥१६३
यदा ह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचार्यते, तदा पर्याया एव प्रतिभासन्ते, न पुनरात्माख्यं किमपि द्रव्यम् । एवं घटोऽपि कुण्डलो-ठ-पृथुबुनोदरपूर्वापरादिभागाद्यवयवापेक्षया वि-12 विच्यमानः पर्याया एव, न पुनर्घटाख्यं तदतिरिक्तं वस्तु । अत एव पर्यायास्तिकनयानुपातिनः पठन्ति
"भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तद्वान् नैव पुनः कश्चिनिर्भागः संप्रतीयते" ॥ १ ॥ इति । __ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यनयार्पणया पर्यायनयाऽनर्पणया च द्रव्यरूपता, पयायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता । अत एवाऽऽह वाचकमुख्यः- "अर्पितानर्पितसिद्धेः" इति । एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवादीदृशस्त्वमेव दर्शितवान् , नान्य इति काकाऽवधारणाऽवगतिः ।।
नन्वन्याभिधानप्रत्यययोग्यं द्रव्यम् , अन्याभिधानप्रत्ययविषयाश्च पर्यायाः । तत्कथमेकमेव वस्तूभयात्मकम् ?, इत्याशङ्कय विशेषणद्वारेण परिहरति-आदेशभेदेत्यादि- आदेशभेदेन सकलादेश-विकलादेशलक्षणेन आदेशद्वयेन, उदिताः प्रतिपादिताः, सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनबन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्वमुपदर्शितम् , तर्हि किमर्थ तीर्थान्तरीयाः तत्र विप्रतिपद्यन्ते ?, इत्याह- "बुधरूपवेद्यम्" इति- बुध्यन्ते यथावस्थितं वस्तुतत्वं सारेतर
तत्रैव पञ्चमाध्यायस्थमेकत्रिंशं सूत्रम् ।
१
६३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org