________________
स्याद् ॥१५४॥
वेत्तेरकर्मकत्वे एवात्मनेपदम् , अत्र तु कर्मास्ति, तत्कथमत्रानश् ?। अत्रोच्यते- अत्र संवेदितुं शक्तः संविदान इति कार्यम् , “वयःशक्तिशीले" ॥५।२।२४॥ इति शक्तौ शानविधानात् । ततश्चायमर्थः-अनुमा-18 नेन विना पराभिसंहितं सम्यग् वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानाऽन्यथाऽनुपपत्त्याऽयमनुमानं हठाद् अङ्गीकारितः । तथा प्रकारान्तरेणाऽप्ययमङ्गीकारयितव्यः, तथा हि-चार्वाकः काश्चित् ज्ञानव्यक्तीः संवादित्वेना-18 ऽव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न च अयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां पर प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद् यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकम् ; परप्रतिपादकं च प्रमाणान्तरमनुमानरूपमुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम् , संनिहितमात्रविषय-18 त्वात तस्य । परलोकादिकं चाप्रतिपिध्य नायं सुखमास्ते. प्रमाणान्तरं च नेच्छतीति डिम्भहेवाकः।
किञ्च, प्रत्यक्षस्याऽप्यर्थाऽव्यभिचारादेव प्रामाण्यम् । कथमितरथा स्नान-पाना-ऽवगाहनाद्यर्थक्रियामर्थे मरुमरीचिकानिचयचुम्बिनि जलज्ञाने न प्रामाण्यम् ? । तेच अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्म- 1॥१५४॥
१ प्रमाणता अप्रमाणता चेत्यर्थः । २ चार्वाकः । ३ प्रामाण्यम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org