________________
स्याद्०
॥१४५॥
१९
नाभ्युपगम्यते स ह्यात्माऽन्वयी । न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् ; तेन वादिनाsस्य हेतोः स्वभावहेतुत्वेनोक्तत्वात् स्वभावहेतुथ तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचितान्तरयोः कुतस्तादात्म्यम् । युगपद्भाविनोश्च प्रतिसन्धेय- प्रतिसन्धायकत्वाभावापत्तिः, युगपद्भावित्वेविशिष्टेऽपि किमत्र नियामकम् ?, यदेकः प्रतिसन्धायकोऽपरच प्रतिसन्धेय इति । अस्तु वा प्रतिसन्धानस्य जननमर्थः; सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभावस्याभावात् । भिन्नकालत्वे च, पूर्वचित्तक्षणस्य विनष्टत्वात् उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ?; इति यत्किञ्चिदेतत् ।
तथा प्रमोक्षभङ्गदोषः - प्रकर्षेणाऽपुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनार्थं यतिष्यते ? । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवना घटिव्यते ? । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव सार्द्धं दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माऽभ्युपगमप्रसङ्गः ।
अपि च, बौद्धाः “निखिलवासनोच्छेदे विगतविषयाकारोपप्लव विशुद्धज्ञानोत्पादो मोक्षः" इत्याहुस्तच्च न घटते; कारणाभावादेव तदनुपपत्तेः- भावनामचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रयाभावाद् विशेषाऽनाऽऽधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाऽभ्यासवत् अनासादितप्रकर्षो न स्फुटाऽभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेव तस्य । समलचित्तक्षणानां स्वाभाविक्याः
Jain Education International
For Private & Personal Use Only
।।। १४५ ।।
www.jainelibrary.org