SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ स्याद् इत्यर्थः; अहो ! महासाहसिकः- सहसा अविमर्शात्मकेन बलेन, वर्तते साहसिकः। भाविनमनर्थयविभाव्य यः | प्रवर्तते स एक्युच्यते, महांश्चासौ साहसिकश्च महासाहसिकोऽत्यन्तमविमृश्य प्रवृत्तिकारी। इति मुकुलितार्थः। ॥१४४॥ विकृतार्थस्त्वयम्- बौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति; न पुनमौक्तिककणनिकराऽतस्यतैकसूत्रवत् , तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतम् , तस्य निरन्वयविनाशान तत्फलोपभोगः, यस्य च फलोपभोगः, तेन तत् कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतकर्मफलाजुपभोगात् । उत्तरज्ञानक्षणस्य चाऽकृतकर्मभोगः, स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः । बन्धानुलोम्याचेत्थमुपन्यासः । तथा भवभङ्गदोपः- भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः | क्षणिकवादे प्रसज्ज्यते- परलोकाभावप्रसङ्ग इत्यर्थः, परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति । तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मा18न्तरे ?। यच्च मोक्षाकरगुप्तेन-“यश्चित्तं तञ्चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरम्परासिद्धये प्रमाणमुक्तम् , तद् व्यर्थ । चित्तक्षणानां निरवशेषविनाशिनां चित्तान्तरपतिसंधानाऽयोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयानुगामिना केनचित्क्रियते । यश्चानयोः प्रतिसंधाता, स तेन | ००००००००००००००००००००००००००००००००००००००००० ॥१४४॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy