SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ स्याद ॥१४३॥ किश्च, इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुकृत्या तावदेष्टव्यम् । तच्चासौ प्रमाणात् | अभिमन्यते, अप्रमाणाद्वा । न तावदप्रमाणात , तस्याऽकिश्चित्करत्वात् । अथ प्रमाणात् , तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृतम् , असांवृतं वा स्यात् । यदि सांवृतम् , कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः?; तथा तदसिद्धौ च वास्तव एवं समस्तोऽपि प्रमात्रादिव्यवहारःप्राप्तः। अथ तद्ग्राहकंप्रमाणं स्वयमसांवृतम्, तर्हि क्षीणा प्रमात्रादिव्यवहाराऽवास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात् । तदेवं पक्षद्वयेऽपि 'इतो व्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धिविरोधः । इति काव्यार्थः ॥ अधुना क्षणिकवादिन ऐहिकाऽऽमुष्मिकव्यवहाराऽनुपपन्नार्थसमर्थनमविमृश्यकारितं दर्शयन्नाह कृतप्रणाशा-ऽकृतकर्मभोग-भव-प्रमोक्ष-स्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो! महासाहसिकः परस्ते ॥१८॥ व्याख्या-कृतप्रणाशदोषम् , अकृतकर्मभोगदोषम् , भवभङ्गदोषम् , प्रमोक्षभङ्गदोषम् , स्मृतिभङ्गदोषमित्येतान् दोषान् ; साक्षादित्यनुभवसिद्धान् , उपेक्ष्याऽनादृत्य,साक्षात् कुर्वन्नपि गजनिमीलिकामवलम्बमानः; सर्वभावानां क्षणभङ्गम-उदयानन्तरविनाशरूपांक्षणक्षयिताम, इच्छन् प्रतिपद्यमानः,ते तव, परःप्रतिपक्षी वैनाशिकः.-सौ १ शून्यवादाऽसिद्धौ। ०००००००००००००००००००००००००००००००००००००००० ॥१४३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy