________________
स्याद्०
॥१४९॥
कष-च्छेद- तापलक्षणोपाधित्रयविशुद्धत्वात् । कषादीनां च स्वरूपं पुरस्ताद्वक्ष्यामः ।
न च वाच्यमाप्तः क्षीणसर्वदोषः तथाविधं चातत्वं कस्यापि नास्तीति । यतः - रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षाऽपकर्षोपलम्भात्, सूर्याद्यावर कजलदपटलवत् । तथा चाहु:
"देशतो नाशिनो भावा दृष्टा निखिलनश्वराः । मेघपङ्क्त्यादयो यद्वत् एवं रागादयो मताः ॥ १ ॥ इति । यस्य च निरवयवतयैते विलीनाः, स एवाप्तो भगवान् सर्वज्ञः । अथ अनादित्वाद् रागादीनां कथं प्रक्षयः १, इति चेत् । न; उपायतस्तद्भावात् ; अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् । तद्वदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः । क्षीणदोषस्य च केवलज्ञानाऽव्यभिचारात् सर्वज्ञत्वम् । तत्सिद्धिस्तु - ज्ञानतारतम्यं कचिद् विश्रान्तम्, तारतम्यत्वात्, आकाशे परिमाणतारतम्यवत् । तथासूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, क्षितिधर कन्धराधिकरणधूमध्वजवत् । एवं चन्द्रसूर्योपरागादि सूचकज्योतिर्ज्ञानाऽविसंवादान्यथाऽनुपपत्तिप्रभृतयोऽपि हेतवो वाच्याः । तदेवमाप्तेन सर्वविदा प्रणीतआगमः प्रमाणमेव । तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् ;
Jain Education International
"रागाद् वा द्वेषाद वा मोहाद् वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ? " ॥ १ ॥ इति वचनात् ॥
For Private & Personal Use Only
॥१४९॥
www.jainelibrary.org