SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ स्याद् || व्यापारयिता स आत्मा । तथा, साधनोपादानपरिवर्जनद्वारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपू- 18॥ विका, विशिष्टक्रियात्वात् , रथक्रियावत् । शरीरं च प्रयत्नवदधिष्ठितम् , विशिष्टक्रियाश्रयत्वात् , रथवत् । यश्वाऽ- | स्याऽधिष्ठाता,स आत्मा,सारथिवत् । तथाऽत्रैव पक्षे,इच्छापूर्वकविकृतवाय्याश्रयत्वाद् भस्त्रावत् वायुश्च प्राणाऽपानादिः; यथास्याऽधिष्ठाता, स आत्मा, भस्वाध्मापयित्वत् । तथाऽत्रैव पक्षे, इच्छाधीननिमेषोन्मेषवदवयवयोगि त्वाद्,दारुयन्त्रवत् । तथा शरीरस्य वृद्धिक्षतभन्नसंरोहणं च प्रयत्नवत्कृतम् ,वृद्धिक्षतभग्नसंरोहणत्वाद्, गृहवृद्धिक्षतभग्नसंरोहणवत । वृक्षादिगतेन वृद्ध्यादिना व्यभिचार इति चेत् । न तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात् । | यश्चैषां कर्त्ता, स आत्मा, गृहपतिवत् । वृक्षादीनां च सात्मकत्वमाचाराङ्गादरवसेयम् , किंचिद्वक्ष्यते च । ___तथा प्रेर्य मनः, अभिमतविषयसंबन्धनिमित्तक्रियाश्रयत्वाद्, दारकहस्तगतगोलकवत् । यश्चास्य प्रेरकः, स आत्मा, इति । तथा, आत्म-चेतन-क्षेत्रज्ञ-जीव-पुरुषादयःपर्यायान निर्विषयाः, पर्यायत्वाद्, घट-कुट-कलशादिपर्यायवत् , व्यतिरेके षष्ठभूतादि । यश्चैषां विषयः, स आत्मा । तथा, अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात् , यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, स सोऽस्तित्वं न व्यभिचरति, यथा घटादिः, व्यतिरेके | | खरविषाणनभोऽम्भोरुहादयः । तथा सुखादीनि द्रव्याश्रितानि, गुणत्वाद्, रूपवत् , योऽसौ गुणी, स आत्मा। ॥१४॥ इत्यादिलिङ्गानि । तस्मादलुमानतोऽप्यात्मा सिद्धः। ___ आगमानां च येषां पूर्वापरविरुद्धार्थत्वम् , तेषामप्रामाण्यमेव । यस्त्वासप्रणीत आगमः, स प्रमाणमेव, ००००००००००००००००००००००००००००००००००००० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy