SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१३९॥ यच्च, अहंप्रत्ययस्य कादाचित्कत्वम्, तत्रेयं वासना - आत्मा तावदुपयोगलक्षणः, स च साकाराऽनाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोगविशेष एव तस्य च कर्मक्षयोपशमवैचित्र्यात् इन्द्रियाऽनिन्द्रियालोक विषयादिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथा - बीजं सत्यामप्यऽङ्कुरोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसमवहितमेवाऽङ्कुरं जनयति; नान्यथा । न चैतावता तस्याङ्करोत्पादने कादाचित्केऽपि तदुत्पादनशक्तिरपि कादाचित्की; तस्याः कथंचिनित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यहं प्रत्ययस्य कादाचित्कत्वम् | यदप्युक्तम्- तस्याऽव्यभिचारि लिङ्गं किमपि नोपलभ्यत इति । तदप्यसारं; साध्याऽविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलब्धेः, तथाहि - रूपाद्युपलब्धिः सकर्त्तृका, क्रियात्वात्, छिदिक्रियावत् ; यश्वास्याः कर्त्ता स आत्मा । न चात्र चक्षुरादीनां कर्तृत्वम् ; तेषां कुठारादिवत् करणत्वेनाऽस्वतन्त्रत्वात् । करणत्वं चैषां पौगलिकत्वेनाऽचेतनत्वात्, परप्रेर्यत्वात्, प्रयोक्तृव्यापार निरपेक्षप्रवृत्त्यभावात् । यदि हि, इन्द्रियाणामेव कर्तृत्वं स्यात्, तदा तेषु विनष्टेषु पूर्वाऽनुभूतार्थस्मृतेः,'मया दृष्टम्, स्पृष्टम्, घातम्, आस्वादितम्, श्रुतम्' इतिप्रत्ययानामेककर्तृकत्वप्रतिपत्तेश्च कुतः संभवः । किञ्च, इन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् । अस्ति च, तथाविधफलादे रूपग्रहणानन्तरं तत्सहचरितरसानुस्मरणम्, दन्तोदक संप्लवाऽन्यथानुपपत्तेः । तस्मादुभयोर्गवाक्षकयोरन्तर्गतः प्रेक्षक इव, द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दर्शी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि, यश्चैषां Jain Educaternational For Private & Personal Use Only www |॥१३९॥ library.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy