SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१३८॥ 1 "यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा। यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम् ?"॥१॥ इति पूर्वपक्षः। विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् ॥ ___अत्र प्रतिविधीयते- ननु यदिदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम् ; तत् शून्यम् , अशून्यं वा ?। शून्यं चेत् । सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नाऽनेन किञ्चित्साध्यते, निषिध्यते वा । ततश्च निष्पतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था । अशून्यं चेत् । प्रलीनस्तपस्वी शून्यवादः भवद्वचनेनैव सर्वशून्यताया व्यभिचारात् , तत्रापि निष्कण्टकैव सा भगवती । तथापि प्रामाणिकसमयपरिपालनार्थ किश्चित् तत्साधनं दृष्यते । तत्र यत्तावदुक्तम्- प्रमातुः प्रत्यक्षेण न सिद्धिः, इन्द्रियगोचराऽतिक्रान्तत्वादिति, तत्सिद्धसाधनम् । यत्पुनः, अहंप्रत्ययेन तस्य मानसपत्यक्षत्वमनैकान्तिकमित्युक्तम् । तदसिद्धम् 'अहं सुखी, अहं दुःखी' इति-अन्तमुखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः। तथा चाहः "सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुवर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ १ ॥ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥२॥" यत्पुनः 'अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः, स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते; यथा- प्रियभृत्येऽहमितिव्यपदेशः। १ अशून्यपक्षकक्षीकारेऽपि । ॥१३८॥ Jain Educal emational For Private & Personal Use Only www brary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy