SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्याद् कुप्येत्कृतान्तः स्पृशते प्रमाणमहो! सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥ ॥१३५॥ _ व्याख्या- शून्यः शून्यवादी प्रमाणं प्रत्यक्षादिकं विना अन्तरेण स्वपक्षसिद्धेः स्वाभ्युपगतशून्यवाद- 18 निष्पत्तेः पदं प्रतिष्ठां नाश्नुवीत न प्राप्नुयात् । किंवत् ? परवत् इतरप्रामाणिकवत् । वैधयेणायं दृष्टान्तः । | यथा इतरे प्रामाणिकाः प्रमाणेन साधकतमेन स्वपक्षसिद्धिमश्नुवते, एवं नायम् ; अस्य मते प्रमाणप्रमेयादि। व्यवहारस्यापारमार्थिकत्वात् “सर्व एवायभनुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिभावेन न बहिःसद| सत्त्वमपेक्षते" इत्यादिवचनात् । अप्रामाणिकश्च शून्यवादाभ्युपगमः कथमिव प्रेक्षावतामुपादयो भविष्यति, प्रेक्षावत्वव्याहतिप्रसङ्गात् ? । अथ चेत् स्वपक्षसंसिद्धये किमपि प्रमाणमयमङ्गीकुरुते, तत्रायमुपालम्भः-कुप्येदित्यादि, प्रमाणं प्रत्यक्षाद्यन्यतमत स्पृशते आश्रयमाणाय, प्रकरणादस्मै शून्यवादिने, कृतान्तस्तत्सिद्धान्तः कुप्येत्कोपं कुर्यात् सिद्धान्तबाधः स्यादित्यर्थः । यथा किल सेवकस्य विरुद्धकृत्या कुपितो नृपतिः सर्वस्वमपहरति, एवं तत्सिद्धान्तोऽपि शून्यवादविरुद्धं प्रमाणव्यवहारमङ्गीकुर्वाण स्य तस्य सर्वस्वभूतं सम्यग्वादित्वमपहरति । किश्च, स्वागमोपदेशेनैव तेन वादिना शून्यवादः प्ररूप्यते, इति स्वीकृतमागमस्य प्रामाण्यमिति कुत- ॥१३५॥ ४ स्तस्य स्वपक्षसिद्धिः, प्रमाणाङ्गीकरणात् । किञ्च, प्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमे ०००००००००००००००००००००००००००००००००००००००००० Jain Educ a temational For Private & Personal Use Only www.ncelbrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy