SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१३४॥ येयं बहिर्मुखतयाऽर्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्युपस्कारः । एतच्चानन्तरमेव भावितम् । एवं च स्थिते सति किमित्याह- “विलूनशीर्ण सुगतेन्द्रजालम् " इति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातमिन्द्रजालमिवेन्द्रजाल, मतिव्यामोहविधायित्वात्, सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम् पूर्व विलूनं पश्चात् शीर्ण विलूनशर्णिम् ; यथा किञ्चित् तृणस्तम्वादि विलूनमेव शीर्यते विनश्यति, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारालयुक्तिस्त्रिकया छिन्नं सद् विशर्यत इति । अथवा यथा निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तव तत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विदग्धजन farar पादिन्द्रधनुरित्र निरवयवं विनशीर्णतां कलयाते, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाभेदक्षणक्षयज्ञानार्थहेतुकत्वज्ञानाद्वैताभ्युपगमादि सर्व प्रमाणानाभिज्ञं लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरारूनामेव सेवत इति । अत्र च सुगतशब्द उपहासार्थः । सौगता हि शोभनं गतं ज्ञानमस्थेति सुगतं इत्युशन्ति । ततथाहो ! तस्य शोभनज्ञानता, येनेत्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थ : १६ || अथ तत्वव्यवस्थापक प्रमाणादिचतुष्टयव्यवहारापलापिनः शून्यवादिनः सौगतजातीयांस्तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकारानङ्गीकारलक्षणे पक्षद्वयेऽपि तदभिमतार्थाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाह । विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमनुवीत । Jain Education international For Private & Personal Use Only www. ॥१३४॥ library.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy