________________
स्याद्० ॥१३४॥
येयं बहिर्मुखतयाऽर्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्युपस्कारः । एतच्चानन्तरमेव भावितम् । एवं च स्थिते सति किमित्याह- “विलूनशीर्ण सुगतेन्द्रजालम् " इति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातमिन्द्रजालमिवेन्द्रजाल, मतिव्यामोहविधायित्वात्, सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम् पूर्व विलूनं पश्चात् शीर्ण विलूनशर्णिम् ; यथा किञ्चित् तृणस्तम्वादि विलूनमेव शीर्यते विनश्यति, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारालयुक्तिस्त्रिकया छिन्नं सद् विशर्यत इति । अथवा यथा निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तव तत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विदग्धजन farar पादिन्द्रधनुरित्र निरवयवं विनशीर्णतां कलयाते, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाभेदक्षणक्षयज्ञानार्थहेतुकत्वज्ञानाद्वैताभ्युपगमादि सर्व प्रमाणानाभिज्ञं लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरारूनामेव सेवत इति । अत्र च सुगतशब्द उपहासार्थः । सौगता हि शोभनं गतं ज्ञानमस्थेति सुगतं इत्युशन्ति । ततथाहो ! तस्य शोभनज्ञानता, येनेत्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थ : १६ ||
अथ तत्वव्यवस्थापक प्रमाणादिचतुष्टयव्यवहारापलापिनः शून्यवादिनः सौगतजातीयांस्तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकारानङ्गीकारलक्षणे पक्षद्वयेऽपि तदभिमतार्थाऽसिद्धिप्रदर्शनपूर्वकमुपहसन्नाह । विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमनुवीत ।
Jain Education international
For Private & Personal Use Only
www.
॥१३४॥
library.org