SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१३२॥ चारः, तस्य भ्रान्तत्वात् । स्वयं स्वस्य संवेदनेऽहमिति प्रतिभास इति चेत् । ननु कि परस्यापि संवेदन| मस्ति ?, कथमन्यथा स्वशब्दस्य प्रयोगः ?, प्रतियोगिशब्दो ह्ययं परमपेक्षमाण एव प्रवर्तते । स्वरूपस्यापि 81 भ्रान्त्या भेदप्रतीतिरिति चेत् । हन्त ! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः ? । भ्रान्तं प्रत्यक्षमिति चेत् ।। ननु कुत एतत् । अनुमानेन ज्ञानार्थयोरभेदसिद्धेरिति चेत् । कि तदनुमानमिति पृच्छामः ? । यद्येन | | सह नियमेनोपलभ्यते तत् ततो न भिद्यते, यथा सञ्चन्द्रादसञ्चन्द्रः, नियमेनोपलभ्यते च ज्ञानेन सहार्थः, | इति व्याफ्कानुपलब्धि:- प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापकः सहोपलम्भानियमस्तस्यानुपलब्धिः, भिनयोनीलपीतयोयुगपदुपलम्भनियमाभावात् , इत्यनुमानेन तयोरभेदसिद्धिरिति चेत् । न, संदिग्धानकान्ति-81 कत्वेनास्यानुमानाभासस्वात् । ज्ञानं हि स्वपरसंवेदनम् , तत्परसंवेदनतामात्रेणैव नीलं गृह्णाति, स्वसं-18 वेदनतामात्रेणेव च नीलबुद्धिम् । तदेवमनयोयुगपद्ग्रहणात्सहोपलम्भनियमोऽस्ति, अभेदश्च नास्ति । इति 1 सहोपलम्भनियमरूपस्य हेतोर्विपक्षाद् व्यावत्तेः संदिग्धत्वात् संदिग्धाकान्तिकत्वम् । असिद्धश्च स होपलम्भनियमः 'नीलमेतत्' इति बहिर्मुखतयाऽर्थेऽनुभूयमाने तदानीमेवाऽऽन्तरस्य नीला-|| नुभवस्याऽननुभवात् । इति कथं प्रत्यक्षस्यानुमानेन ज्ञानार्थयोरभेदसिद्ध्या भ्रान्तत्वम् ।। अपि च, प्रत्यक्षस्य भ्रान्तत्वेनाध्याधितविषयस्वादनुमानस्यात्मलाभः, लब्धात्मके चातुमाने प्रत्यक्षस्य भ्रान्तत्वम् , इत्यन्योन्याश्र- १३२॥ यदोषोऽपि दुर्निवारः । अर्थाभावे च नियतदेशाधिकरणा प्रतीतिः कुतः । न हि तन विवक्षितदेशेऽयमारो. २०००००००००००००००००००००००००००००० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy