SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१३॥ तेषामपि कथञ्चित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् ।। अनुमानादपि तत्सिद्धिः , यथा- सन्ति परमाणवः, स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेः, इत्यन्ताप्तिः । न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः, स्थूलादपि मूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात् ; आत्माकाशादेरपुद्गलकार्यत्वकक्षीकाराच्च । यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रादुर्भूतं संयोगातिशयमपेक्ष्येयमवितथैव । यदपि किञ्चायमनेकावयवाधार इत्यादि न्यगादि, तत्रापि कथञ्चिद्विरोध्यनेकावयवाविष्वग्भूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोध्यनेकावयवाधारतायां विरुद्धधर्माध्यास नमभिहितं तत्कथश्चिदुपेयत एव तावदवयवात्मकस्य तस्यापि कथश्चिदनेकरूपत्वात् । यच्चोपन्यस्तम्- अपिच, ६ असौ तेषु वर्तमानः कात्स्न्येनैकदेशेन वा वर्ततेत्यादि । तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम् : अविष्वग्भा वेनाऽवयविनोऽवयवेषु वृत्तेः स्वीकारात् । किञ्च, यदि वाह्योऽर्थो नास्ति, किमिदानी नियताकारं प्रतीयते | 'नीलमेतत् ' इति ?। विज्ञानाकारोऽयमिति चेत् । न, ज्ञानाद् वहिभूतस्य संवेदनात् । ज्ञानाकारत्वे तु 'अहं नी लम्' इति प्रतीतिः स्यान्न तु 'इदं नीलम् ' इति । ज्ञानानां प्रत्येकमाकारभेदात् कस्यचित् 'अहम्' इति | प्रतिभासः, कस्यचित् 'नीलमेतत्' इति चेत् । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् । तथा च यदेकेनाहमिति प्रतीयते तदेवापरण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः, सर्वैरप्ये- ॥१३॥ करूपतया ग्रहणात् । भक्षितहृत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते, तथापि तेन न व्यभि Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy