SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१३०॥ "नान्योऽनुभाव्यो बुद्धयाऽस्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥१॥ वाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्तते " ॥ २ ॥ इति । तदेतत्सर्वमवद्यम् , ज्ञानमिति हि क्रियाशब्दः, ततो ज्ञायतेऽनेनेति ज्ञानं, ज्ञप्तिर्वा ज्ञानमिति । अस्य च कर्मणा भाव्यं, निर्विषयाया ज्ञप्तेरघटनात् । न चाकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यं तस्या| प्येकान्तेन निर्विषयत्वाभावात् । न हि सर्वथाऽगृहीतसत्यकेशज्ञानस्य तत्प्रतीतिः । स्वप्नज्ञानमप्यनुभूतहटाद्यर्थविषयत्वान्न निरालम्बनम् । तथा च महाभाष्यकार:___ "अणुहूयदिकृचिंतियसुयपयइवियारदेवयाणवा । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो" ॥१॥ यश्च ज्ञानविषयः स बाह्योऽर्थः । भ्रान्तिरियमिति चत् । चिरं जीव , भ्रान्तिर्हि मुख्येऽर्थे कचिद् । २ दृष्टे सति करणापाटवादिनाऽन्यत्र विपर्यस्तग्रहणे प्रसिद्धा , यथा शुक्तौ रजतभ्रान्तिः । अर्थक्रियाo समर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते, तर्हि प्रलीना भ्रान्ताभ्रान्तव्यवस्था । तथा च सत्यमेतद्वचः "आशामोदकतृप्ता ये ये चास्वादितमोदकाः । रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते " ॥१॥ न चामून्यर्थदूषणानि स्याद्वादवादिनां वाधां विदधते, परमाणुरूपस्य, स्थूलावयविरूपस्य चार्थस्याङ्गीकृतत्वात् । यच्च परमाणुपक्षखण्डनेऽभिहितं-प्रमाणाभावादिति । तदसत , तत्कार्याणां घटादीनां प्रत्यक्षत्वे २ ' तत्सर्वमवद्यम् ' इति च । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy