SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१२८॥ भावभेदेनाऽनित्यत्वापत्तेः । न युगपत् , एकक्षणे एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्त्वापत्तिः।।।। अनित्याश्चेत् क्षणिकाः, कालान्तरस्थायिनो वा । क्षणिकाश्चेत् , सहेतुका निर्हेतुका वा । निर्हेतुकाचेत् , नित्यं | सत्वमसत्त्वं वा स्यान्निरपेक्षत्वात् । अपेक्षातो हि कादाचित्कत्वम् । सहेतुकाश्चेत् , किं तेषां स्थूल किंचित्कारणं परमाणवो वा ? । न स्थूलं; परमाणुरूपस्यैव बाह्यार्थस्याऽङ्गीकृतत्वात् । न च परमाणवः, ते हि सन्तोऽसन्तः सदसन्तो वा स्वकार्याणि कुर्युः । सन्तश्चेत्, किमुत्पत्तिक्षण एव, क्षणान्तरे वा। नोत्पत्तिक्षणे, तदानीमुत्पत्ति| मात्रव्यग्रत्वात् तेषाम् । अथ “भूतिर्येषां क्रिया सैव कारणं सैव चोध्यते” इति वचनाद् भवनमेव तेषामपरोत्पत्तौ कारणमिति चेत् , एवं तर्हि रूपाणको रसाणूनाम् , ते च तेषामुपादानं स्युः, उभयत्र भवनाविशेषात् । न च क्षणान्तरे, विनष्टत्वात् । अथाऽसन्तस्ते तदुत्पादकाः, तर्हि एकं स्वसताक्षणमपहाय सदा तदुत्पत्तिप्रसङ्गः, तदसत्त्वस्य सर्वदाऽविशेषात् । सदसत्पक्षस्तु " प्रत्येक यो भवेदोषो द्वयोर्भावे कथं न सः ?" इति वचनाद्विरोधाघ्रात एव । तन्नाणवः क्षणिकाः । नापि कालान्तरस्थायिनः क्षणिकपक्षसहक्षयो गक्षेमत्वात् । किश्च, अमी कियत्कालस्थायिनोऽपि किमर्थक्रियापराङ्मुखाः, तत्कारिणो बा ?। आये खपुष्पवदसत्त्वापत्तिः । उदग्विकल्पे किमसद्रूपं सद्रूपमुभयरूपं वा ते कार्य कुर्युः । असद्रूपं चेत् , शशविषाणादेरपि किं न ॥१२८॥ करणम् । सद्रूपं चेत् , सतोऽपि करणेऽनवस्था । तृतीयभेदस्तु प्राग्वद्विरोधदुर्गन्धः। तत्राणुरूपोऽर्थः सर्वथा घटते । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy