SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्यादू० अपिच, व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् ?, यदि व्यस्ते, तदा कपालाद्यक्षणो घटाऽन्त्यक्ष- 18 ॥१२॥ णस्य, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोतिः यथासंख्यं तदुत्पत्तेः, तदाकारत्वाच्च । अथ समस्ते, तर्हि | घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति, तयोरुभयोरपि सद्भावात् । ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वं प्रसज्येत, तयोर्जन्यजनकभावसद्भावात् । तन्न योग्यतामन्तरेणाऽन्यद् ग्रहणकारणं पश्याम इति । __अथोत्तरार्धं व्याख्यातुमुपक्रम्यते । तत्र च वावार्थनिरपेक्ष ज्ञानाद्वैतमेव ये बौद्धविशेषा मन्वते तेषां | 8 प्रतिक्षेपः । तन्मतं चेदम्- ग्राह्यग्राहकादिकलङ्काऽनङ्कितं निष्पपञ्चं ज्ञानमात्रं परमार्थसत् । बाह्यार्थस्तु विचारमेव न क्षमते, तथाहि- कोऽयं बाह्योऽर्थः ? किं परमाणुरूपः, स्थूलावयविरूपो वा । न तावत् परमाणुरूपः, प्रमाणाऽभावात् । प्रमाणं हि प्रत्यक्षमनुमानं वा । न तावत्प्रत्यक्षं तत्साधनबद्धकक्षम् । तद्धि योगिनां स्यात् , अस्मदादीनां वा । नाद्यम् । अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात् । न द्वितीयम् , अनु. भवबाधितत्वात् । न हि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः, स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदयात् । नाप्यनुमानेन तत्सिद्धिः; अणूनामतीन्द्रियत्वेन तैः सहाऽविनाभावस्य कापि लिङ्गे ग्रहीतुमशक्यत्वात् । 1॥१२७॥ किञ्च, अमी नित्या अनित्या वा स्युः। नित्याश्चेत् , क्रमेणाऽर्थक्रियाकारिणो युगपद्वा । न क्रमेण स्व-18 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy