________________
स्याद् ०
॥१२५॥
तस्याऽकारणत्वात् । अत आह- -" न तुल्यकालः " इत्यादि । ज्ञानार्थयोः फलहेतुभावः कार्यकारणभावस्तुल्यकालो न घटते; ज्ञानसहभाविनोऽर्थक्षणस्य ज्ञानाऽनुत्पादकत्वात् ; युगपद्भाविनोः कार्यकारणभावाऽयोगात् । अथ प्राचोऽर्थक्षणस्य ज्ञानोत्पादकत्वं भविष्यति; तन्न, यत आह- “ हेतौ ” इत्यादि । तावर्थरूपे ज्ञानकारणे विलीने क्षणिकत्वान्निरन्वयं विनष्टे न फलस्य ज्ञानलक्षणकार्यस्य भाव आत्मलाभः स्यात् । जनकस्यार्थक्षणस्यातीतत्वाद् निर्मूलमेव ज्ञानोत्थानं न स्यात् । जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि ग्राह्यत्वापत्तिः, तेषामपि ज्ञानजनकत्वात् । न चाऽन्वयव्यतिरेकाभ्यामर्थस्य ज्ञानहेतुत्वं दृष्टं, मृगतृष्णादौ जलाभावेऽपि जलज्ञानोत्पादात्, अन्यथा तत्प्रवृत्तेरसंभवात् । भ्रान्तं तज्ज्ञानमिति चेत् । ननु भ्रान्ताभ्रान्तविचारः स्थिररीभूय क्रियतां त्वया, सांप्रतं प्रतिपद्यस्व तावदनर्थजमपि ज्ञानम् । अन्वयेनार्थस्य ज्ञानहेतुत्वं दृष्टमेवेति चेत् । न न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम्, अपितु तदभावेऽभावलक्षणो व्यतिरेकोऽपि । स चोक्तयुक्त्या नास्त्येव । योगिनां चाऽतीतानागतार्थग्रहणे किमर्थस्य निमित्तत्वम्, तयोरसत्वात् ?
"ण णिहाणगया भग्गा पुंजो णत्थि आणगए । णिव्या णैव चिद्वंति आरम्गे सरिसवोत्रमा" इति वचनात्। निमित्तत्वे चार्थक्रियाकारित्वेन सत्त्वादतीतानागतत्वक्षतिः । न च प्रकाश्यादात्मलाभ एवं प्रकाशकस्य प्रकाशकत्वं; प्रदीपादेर्यदादिभ्यो ऽनुत्पन्नस्यापि तत्प्रकाशकत्वात् । जनकस्यैव च ग्राह्यत्वाऽभ्युपगमे
Jain Education International
For Private & Personal Use Only
॥१२५॥
www.jainelibrary.org