________________
स्याद्
॥१२४॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः । केवलमत्र फलमुपादेयं हेतुरुपादानं तद्भाव उपादानोपादेयभाव इत्यर्थः ।
यच्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनाऽनन्तरमेव प्रलपितं तत् स्याद्वादवादे निरवकाशमेव, निरन्वयनाशवजे कथंचित्सिद्धसाधनात् , प्रतिक्षणं पर्यायनाशस्यानेकान्तवादिभिरभ्युपगमात् । यदप्याभि| हितम्- न ह्येतत् संभवति- जीवति च देवदत्तो, मरणं चास्य भवतीति । तदपि संभवादेव न स्यावादिनां क्षतिमावहतिः यतो जीवनं प्राणधारणं, मरणं चायुर्दलिकक्षयः । ततो जीवतोऽपि देवदत्तस्य प्रतिसमयमायुर्दलिकानामुदीर्णानां क्षयादुपपन्नमेव मरणम् । न च वाच्यमन्त्यावस्थायामेव कृत्स्नायुर्दलिकक्षयात् तत्रैव मरणव्यपदेशो युक्त इति ; तस्यामप्यवस्थायां न्यक्षेण तत्क्षयाभावात् । तत्रापि ह्यवशिष्टानामेव तेषां क्षयो न पुनस्तत्क्षण एव युगपत्सर्वेषाम् । इति सिद्ध गर्भादारभ्य प्रतिक्षणं मरणम् । इत्यलं प्रसङ्गेन ।
अथवाऽपरथा व्याख्या- सौगतानां किलार्थेन ज्ञान जन्यते । तच्च ज्ञानं तमेव स्वोत्पादकमर्थ गृह्णातीति, “ नाऽकारणं विषयः" इति वचनात् । ततश्चार्थः कारणं ज्ञानं च कार्यमिति । एतच्च न चारु, यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि ज्ञानं नोत्पद्यते, तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात् । यत्र च क्षणे ज्ञानं समुत्पन्नं तत्रार्थोऽतीतः । पूर्वापरकालभावनियतश्च कार्यकारणभावः । क्षणातिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः, कारणस्य विलीनत्वात् । तद्विलये च ज्ञानस्य निर्विषयताऽनुषज्यते, कारणस्यैव युष्म- न्मते तद्विषयत्वात् । निर्विषयं च ज्ञानमप्रमाणमेवाकाशकेशज्ञानवत् । ज्ञानसहभाविनश्वार्थक्षणस्य न ग्राह्यत्वम् ,
॥१२४॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org