SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ स्याद् मविनश्वरं तद् वस्तु स्व हेतोतिमिति ?; न हि म्रियते च, अमरणधर्मा चेति युज्यते वक्तुम् । तस्मादविनश्वरत्वे 1 कदाचिदपि नाशाज्योगात् , दृष्टत्वाच नाशस्य, नश्वरमेव तद्वस्तु स्वहेतोरुपजातमङ्गीकर्तव्यम् । तस्मादुत्पन्न-18 १२३॥ मात्रमेव तद्विनश्यति । तथाच क्षणक्षयित्वं सिद्धं भवति । प्रयोगस्त्वेवम्- यद्विनश्वरस्वरूपं तदुत्पत्तेरनन्तराऽनवस्थायि, यथान्त्यक्षणवार्त घटस्य स्वरूपम् , विनश्वरस्वरूपं च रूपादिकमुदयकाले, इति स्वभावहेतुः । यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात? । उच्यते-निरन्तरसदृशाऽपरापरोत्पादात् , अविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते; तेनाकारविलक्षणत्वा- 8 ऽभावादव्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाऽध्यवसायी प्रत्ययः प्रसूयते । अत्यन्तभिन्नेष्वपि ॥६॥ लूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवाऽयं ‘स एवाऽयम्' इति प्रत्ययः, तथेहापि किं न संभाव्यते ? तस्मात्सर्व सत् क्षणिकमिति सिद्धम् । अत्र च पूर्वक्षण उपादानकारणम् , उत्तरक्षण उपादेयम् , इति पराभिप्रायमङ्गीकृत्याह-" न तुल्यकालः" इत्यादि । ते विशकलितमुक्तावलीकल्पा निरन्वयविनाशिनः पूर्व- 18 क्षणा उत्तरक्षणान् जनयन्तः किं स्वोत्पत्तिकाले एवं जनयन्ति, उत क्षणान्तरे । न तावदाद्यः, समकालभाविनोयुवतिकुचयोरिवोपादानोपादेयभावाऽभावात् । अतः साधक्तम्-“न तुल्यकालः फलहेतुभावः" इति । न च द्वितीयः, तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादत्तरक्षणजनने कुतः संभावनापि । न चानुपादानस्योत्पत्तिदृष्टा, अतिप्रसङ्गात् । इति सुष्ठु व्याहृतं- " हेतौ विलीने न फलस्य भावः" इति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy