SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ स्याद् स्थिते प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीते; यः प्रमिमीते स एवोपादत्ते, परित्यजति, । उपेक्षते चेति सर्वव्यवहारिभिरस्खलितमनुभवात् ; इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यत॥१२२॥ इत्यलम् । अथवा पूर्वार्धमिदमन्यथा व्याख्येयम् । सौगताः किलेत्थं प्रमाणयन्ति- सर्व सत् क्षणिकम् । यतः सर्व तावद घटादिकं वस्तु मुद्रादिसंनिधौ नाशं गच्छद् दृश्यते । तत्र येन स्वरूपेणान्त्यावस्थायां घटादिक विनश्यति तच्चत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टव्यम् , इति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य स्खहेतुतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्ग रादिसंनिधानेऽपि स एष एव तस्य स्वभावः, इति पुनरप्येतेन तावन्तमेव कालं स्थातव्यम् । इति नैव विन| श्यदिति । सोऽयमदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः । तस्मात् क्षणद्वयस्थायित्वे-१॥ नाप्युत्पत्तौ प्रथमक्षणवद् द्वितीयेऽपि क्षणे क्षणद्वयस्थायित्वात् पुनरपरक्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभावत्वाद् नैव विनश्येदिति । स्यादेतत् , स्थावरमेव तत् स्वहेतोर्जातम्, परं वलेन विरोधकेन मुद्गरादिना विनाश्यत इति । तदसत् । कथं पुनरेतद् घटिष्यते " न च तद् विनश्यति स्थावरत्वात् , विनाशश्च तस्य विरोधिना बलेन क्रियते" इति । न ह्येतत्सम्भवति- जीवति च देवदत्तो, मरणं चास्य भवतीति । अथ विनश्यति, तर्हि कथ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy