SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१२॥ व्यवस्थापकभावस्यापि च संवन्धत्वेन द्विष्ठत्वादेकस्मिन्नसंभवात् । किञ्च, अर्थसारूप्यमाकारता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा । निश्चयरूपं चेत्, तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चेत , स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । अपि च, केयमर्थाकारता ?; किमर्थग्रहणपरिणामः, आहोस्विदर्थाकारधारित्वम् । नायः,सिद्धसाधनात् । द्वि- 11 तीयस्तु ज्ञानस्य प्रमेयाकारानुकरणाजडत्वोपपत्त्यादिदोषाऽऽघ्रातः। तन्न प्रमाणादेकान्तेन फलस्याऽभेदः सा- 181 धीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोने व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधि| गतिः फलमिति सर्वथातादात्म्ये सिद्धयति; अतिप्रसङ्गात् । ननु प्रमाणस्याऽसारूप्यव्यावृत्तिः सारूप्यम् , अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि | प्रमाणफलव्यवस्थेति चेत् । नैवम् , स्वभावभेदमन्तरेणाऽन्यव्यावृत्तिभेदस्यानुपपत्तेः। कथं च प्रमाणस्य फलस्य चाऽप्रमाणाऽफलव्यावृत्त्याः प्रमाणफलव्यवस्थावत प्रमाणान्तरफलान्तरव्यावृत्त्याऽप्यप्रमाणत्वस्याऽफलत्वस्य च व्यवस्था न स्यात् , विजातीयादिव सजातीयादपि व्यावृत्तत्वाद् वस्तुनः । तस्मात् प्रमाणात् फलं कथश्चिद्भिन्नमेवैष्टव्यं, साध्यसाधनभावेन प्रतीयमानत्वात् । ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्येते, यथा कुठारच्छिदिक्रिये इति । एवं योगा- 13॥१२॥ भिप्रेतः प्रमाणात् फलस्यैकान्तभेदोऽपि निराकर्तव्यः, तस्यैकममातृतादात्म्येन प्रमाणात् कथश्चिदभेदव्यव Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org,
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy