SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्या अथ क्षणान्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्याशङ्कयाह--"हेतौ विलीने न फलस्य भावः" इति ॥१२०॥ हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न | १० भावः सत्ता, निर्मूलत्वात् ; विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते; नान्यथा, अतिप्रसङ्गात् । किञ्च, हेतुफलभावः संबन्धः, स च द्विष्ठ एव स्यात् । न चाऽनयोः क्षणक्षयैकदीक्षितो भवान् संब-18 न्धं क्षमते । ततः कथम् 'अयं हेतुरिदं फलम्' इति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याऽग्रहणे तदसंभवात ?, " द्विष्ठसंबन्धसंवित्तिर्नैकरूपप्रवेदनात् । द्वयोः स्वरूपग्रहणे सति संवन्धवेदनम् "॥१॥ इति वचनात् ।। यदपि धर्मात्तरेण--" अथेसारूप्यमस्य प्रमाणं तद्वशादथेप्रतीतिसिद्धेः" इति न्यायाबिन्दुमूत्रं विवृण्वता भणितम्--" नीलनिर्भासं हि विज्ञानं, यतस्तस्माद् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो | * ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चाऽत्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः येनकस्मिन् वस्तुनि विरोधः | स्यात् ; अपि तु व्यवस्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किश्चिद्रूपं प्रमाणं किश्चित् प्रमाणफलं न विरुध्यते; व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम्" इत्यादि । तदप्यसारम् । एकस्य निरंशस्य ज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयाऽयोगात, व्यवस्थाप्य २॥१२॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy