________________
स्याद्०
ऽपि तस्या वाड्मात्रमेवः धर्मादीनामात्मधर्मत्वात् । अत एव चाहङ्कारोऽपि न बुद्धिजन्यो युज्यते; तस्याभि
मानात्मकत्वेनाऽऽत्मधर्मस्याचेतनादुत्पादायोगात् । अम्बरादीनां च शब्दादितन्मानजत्वं प्रतीतिपराहत॥११६॥ | त्वेनैव विहितोत्तरम् ।
___अपि च, सर्ववादिभिस्तावदविगानेन गगनस्य नित्यत्वमङ्गीक्रियते । अयं च शब्दतन्मात्रात् तस्या| प्याविर्भावमुद्भावयन्नित्यैकान्तवादिनां च धुरि आसनं न्यासयनसंगतप्रलापीव प्रतिभाति । न च परिणामि-18
कारणं स्वकार्यस्य गुणो भवितुमर्हतीति "शब्दगुणमाकाशम्"इत्यादि वाङ्मात्रम् । वागादीनां चेन्द्रियत्वमेव | न युज्यते, इतरासाध्यकार्यकारित्वाभावात; परप्रतिपादनग्रहणविहरणमलोत्सर्गादिकार्याणामितरावयवैरपि साध्यत्वोपलब्धेः; तथापि तत्कल्पने इन्द्रियसंख्या न व्यवतिष्ठते, अन्याङ्गोपाङ्गादीनामपीन्द्रियत्वप्रसङ्गात ।
यञ्चोक्तं " नानाश्रयायाः प्रकृतेरेव बन्धमोक्षौ संसारश्चः न पुरुषस्य " इति । तदप्यसारम् ; अनादिभवपरम्परानुबद्धया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहणलक्षणोविष्वग्भावः स एव चेन्न बन्धः, तदा को नामान्यो बन्धः स्यात् ? | "प्रकृतिः सर्वोत्पत्तिमतां निमित्तम्" इति च प्रतिपद्यमानेनाऽऽयुष्मता संज्ञाऽन्तरेण | कर्मैव प्रतिपन्नः तस्यैवैवस्वरूपत्वात् , अचेतनत्वाच ।
_ यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धः । तद्यथा- प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते ॥११६॥ 1 तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषबुद्धयोपासते तेषां वैकारिकः । इष्टापूर्ते :
००००००००००००००००००००००००००००००००००००००००००
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org