SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥११५॥ 1 प्रतिसंक्रमोऽपि युक्तः, कथञ्चित्सक्रियात्मकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपपत्तेः, अप्रच्युतप्राचीनरूपस्य च सुखदुःखादिभोगव्यपदेशानर्हत्वात् । तत्पच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वाऽऽपत्तिः स्फटिकादावपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनात् ; अन्यथा कथमन्धोपलादौ न प्रतिबिम्बः । तथा परिणामाभ्युपगमे च बलादायातं चिच्छक्तेः कर्तृत्वं, साक्षाद्भोक्तृत्वं च । अथ “अपरिणामिनी भोक्तशक्तिरपतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्ते च तवृत्तिमनुभवति" इति पतञ्जलिवचनादौपचारिक एवायं प्रतिसंक्रम इति चेत् । तर्हि " उपचारस्तत्त्वचिन्तायामनुपयोगी " इति प्रेक्षावतामनुपादेय एवायम् । तथा च प्रतिप्राणि प्रतीतं सुखदुःखादिसंवेदनं निराश्रयमेव स्यात् । न चेदं बुद्धरुपपन्नं तस्या जडत्वेनाभ्युपगमात् । अत एव " जडा च बुद्धिः" इत्यपि विरुद्धम् । न हि जडस्वरूपायां बुद्धौ विषयाध्यवसायः साध्यमानः साधीयस्तां दधाति । ननूक्तमचेतनाऽपि बुद्धिश्चिच्छक्तिसान्निध्याचेतनावतीवावभासत इति । सत्यमुक्तम् , अयुक्तं तूक्तम् , न हि चैतन्यवति पुरुषादौ प्रतिसंक्रान्ते दर्पणस्य चैतन्याऽऽपत्तिः; चैतन्याचैतन्ययोरपरावर्तिस्वभावत्वेन शक्रेणाप्यन्यथाकर्तुमशक्यत्वात् । किञ्च, | अचेतनाऽपि चेतनावतीव प्रतिभासत इति इवशब्देनाऽऽरोपो ध्वन्यते । न चाऽरोपोऽर्थक्रियासमर्थः । न | खल्वतिकोपनत्वादिना समारोपिताग्नित्वो माणवकः कदाचिदपि मुख्याग्निसाध्यां दाहपाकाद्यक्रियां ॥११५॥ | कर्तुमीश्वरः । इति चिच्छक्तेरेव विषयाध्यवसायो घटते; न जडरूपाया बुद्धेरिति । अत एव धर्माद्यष्टरूपता ००००००००००००००००००००००००००००००००००००००००० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy