SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥११४॥ यश्चितिसन्निधानापन्न चैतन्याया बुद्धेः सोऽध्यवसायो बुद्धेरसाधारणो व्यापारः " इति । चिच्छक्तिसन्निधानाच्चाचेतनाऽपि बुद्धिश्चेतनावतीवाऽऽभासते । वादमहार्णवोऽप्याह -- “ बुद्धिदर्पणसंक्रान्तमर्थप्रतिविम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहतिः तदेव भोक्तृत्वमस्य, न त्वात्मनो विकाराssपत्तिः" इति । तथाचासुरि:“विविक्ते परिणत बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ १ ॥ विन्ध्यवासी त्वेवं भोगमाचष्टे " पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा " ॥ १ ॥ न च वक्तव्यम् - पुरुषश्चेदगुणोऽपरिणामी ; कथमस्य मोक्षः ? मुचेर्बन्धनविश्लेषार्थत्वात् सवासनक्लेशकर्माशयानां च बन्धनसमानातानां पुरुषेऽपरिणामिन्यसम्भवात् । अत एव नास्य प्रेत्यभावाऽपरनामा संसारोsस्ति, निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाश्रया सती बध्यते, संसरति, मुच्यते च न पुरुष इति धमोक्ष संसाराः पुरुषे उपचर्यन्तेः यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्येते, तत्फलस्य कोशलाभादेः स्वामिनि संबन्धात्, तथा भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषे संबन्ध इति । तदेतदखिलमालजालम् । चिच्छक्तिश्व, विषयपरिच्छेदशून्या चेति परस्परविरुद्धं वचः । चिति संज्ञाने; चेतनं, चित्यते वाऽनयेति चित् । सा चेत् स्वपरपरिच्छेदात्मिका नेष्यते, तदा चिच्छक्तिरेव सा न स्यात्, घटवत् । न चामूर्तायाश्चिच्छक्तेर्बुद्धौ प्रतिविम्वोदयो युक्तः, तस्य मूर्तधर्मत्वात् । न च तथा परिणाममन्तरेण Jain Education International For Private & Personal Use Only ॥ ११४ ॥ www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy