SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ .०००० स्याद् ॥११३॥ योजनीयमिति । तत एव चाहङ्काराद् एकादशेन्द्रियाणि च । तंत्र चक्षुः, श्रीयं, घ्राणं, रसनं, त्वगिति | पञ्च बुद्धीन्द्रियाणि वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि एकादशं मन इति । पञ्चतन्मात्रेभ्यश्च पञ्च महाभूतान्युत्पद्यन्ते; तद्यथा-शब्दतन्मात्रादाकाशं शब्दगुणम् । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द- | | स्पर्शरूपगुणम् । शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः । शब्दस्पर्शरूपर- | सतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । पुरुषस्तु____ "अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने"॥१॥ इति । अन्धपङ्गुवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या; यत इन्द्रियद्वारेण सुखदुः| खादयो विषया बुद्धौ प्रतिसंक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा। ततस्तस्यां चैतन्यशक्तिः प्रतिविम्बते । ततः सुख्यहं दुःख्यहमित्युपचारः। आत्मा हि स्वं बुद्धरव्यतिरिक्तमभिमन्यते । आह च पतञ्जलिः-"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन् अतदात्मकोऽपि तदाऽऽत्मक इव प्रतिभासते " इति । मुख्यतस्तु बुद्धरेव विषयपरिच्छेदः । तथाच वाचस्पतिः-" सर्वो व्यवहर्ता आलोच्य- नन्वहमत्राधिकृतइत्यभिमत्य, कर्तव्यमेतन्मया, इत्यध्यवस्यति ततश्च प्रवर्तते, इति लोकतः सिद्धम् । तत्र कर्तव्यमिति योऽयं निश्च १ 'पङ्ग्वन्धवत्' इति च पाठः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy