________________
स्याद०
तिक- मानुषपशुपतिमृगसरीसृपस्थावरनिमित्तम् । आधिदैविक-यक्षराक्षसग्रहाद्याऽऽवेशहेतुकम् । अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिना चेतनाशक्तेः प्रतिकूलतया, अभिसंबन्धो-अभिघातः ।
तत्त्वानि पञ्चविंशतिः । तद्यथा- अव्यक्तम्-एकम् ; महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियपञ्चमहाभूतभेदात् त्रयोविंशतिविधं-व्यक्तम् । पुरुषश्च चिद्रूप इति । तथा चेश्वरकृष्णः"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । पोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः"॥१॥
प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । प्रधानमव्यक्तमित्यनान्तरम् । तच्च--अनादिमध्यान्तमनवयवं साधारणमश-8 ब्दमस्पर्शमरूपमगन्धमव्ययम् । प्रधानाद्-बुद्धिमहदित्यपरपर्याय-उत्पद्यते । योऽयमध्यवसायो-गवादिषु प्रति| पत्तिः-एवमेतद् नान्यथा, गौरेवायं नाश्वः, स्थाणुरेष नायं पुरुष इत्येषा बुद्धिः । तस्यास्त्वष्टौ रूपाणिधर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानिः अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि ।
बुद्धेः--अहङ्कारः। स च--अभिमानात्मकः, अहं शब्देऽहं स्पर्शेऽहं रूपेऽहं गन्धेऽहं रसेऽहं स्वामी, अहमीश्वरः, असौ मया हतः, ससत्त्वोऽहममुं हनिष्यामीत्यादिप्रत्ययरूपः । तस्मात्-पञ्च तन्मात्राणि शब्दतन्मात्रादीनि अविशेषरूपाणि सूक्ष्मपर्यायवाच्यानि । शब्दतन्मात्राद् हि शब्द एवोपलभ्यते, न पुनरुदात्तानुदात्त- ॥११२॥ स्वरितकम्पितषड्जादिभेदाः । षड्जादयः-- शब्दविशेषादुपलभ्यन्ते । एवं स्पर्शरूपरसगन्धतन्मात्रेष्वपि
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org