SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्यात् ।। दाक्षिणः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना वध्यत इतिः " इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्यो येऽभिनन्दन्ति मूढाः।। ॥११७॥ नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति" ॥१॥ इति वचनात् । ___स त्रिविधोऽपि कल्पनामात्रं कथञ्चिद् मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नस्वरूपत्वेन कर्मबन्धहेतुष्वेवान्तर्भाका । बन्धसिद्धौ च सिद्धस्तस्यैव निर्वाधः संसारः । बन्धमोक्षयोश्चैकाधिकरणत्वाद् य एव | बद्धः स एव मुच्यत इति पुरुषस्यैव मोक्षः, आबालगोपालं तथाप्रतीतेः। प्रकृतिपुरुषविवेकदर्शनात् प्रवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति चेत् । न, प्रवृत्ति | स्वभावायाः प्रकृतेरौदासीन्यायोगात् । अथ पुरुषार्थनिवन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः तस्यां जातायां निवतते, कृतकायेत्वात् । ___“ रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः"॥१॥ | इति वचनादिति चेत् । नैवम् , तस्या अचेतनाया विमृश्यकारित्वाभावात् , यथेयं कृतेऽपि शब्दाधुपलम्भे ३] पुनस्तदर्थं प्रवर्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रवर्तिष्यते; प्रवृत्तिलक्षणस्य स्वभावस्यानपेत-18॥११७॥ त्वात । नर्तकीदृष्टान्तस्तु खेविघातकारी. यथा हि नर्तकी नृत्यं पारिपदेभ्यो दर्शयित्वा निवृत्ताऽपि पुनस्त Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy