SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥१०८॥ सर्वात्मकत्वं भवेत् ?, पराऽसत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति पराऽसत्त्वं, किन्तु स्वसश्व - मेव तदिति चेद्-अहो ! वैदग्धी न खलु यदेव सत्त्वं- तदेवासत्त्वं भवितुमर्हति; विधिप्रतिषेधरूपतया विरुद्धधमध्या सेनानयोरैक्यायोगात् । अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति वेद्; अहो ! वाचाटता देवानांप्रियस्य । नहि वयं येनैव प्रका रेण सतं, तेनैवासवं, येनैव वासत्त्वं तेनैव सत्त्वमभ्युपेमः, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सवं, पररूपत्र्यक्षेत्रकालभावैस्त्वसत्त्वम् ; तदा क विरोधाऽवकाश: ? । atra area - " सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थप्रतिनियमसिद्धेः, किं तेषासत्वाऽऽत्मकत्वकल्पनया ?" इति । तदसत् - यदा हि पटाद्यभावरूपो घटो न भवति, तदा घटः पटादिरेव स्वात् । यथा च घटाभावाद् भिन्नत्वाद् घटस्य घटरूपता, तथा पंदादेरपि स्यात्, घटाभावाद् भिन्नत्वादेव । इत्यलं विस्तरेण । एवं वाचकमपि शब्दरूपं द्वयात्मकम् - एकात्मकमपि सद्- अनेकमित्यर्थः । अर्थोक्तन्यायेन शब्दस्यापि भावाभावात्मकत्वात् । अथवा एकविषयस्यापि वाचकस्यानेकविषयत्वोपपत्तेः । यथा किल घटशब्दः संकेतवशात् पृथुबुध्नोदराद्याकारवति पदार्थे प्रवर्तते वाचकतया, तथा देशकालाद्यपेक्षया तद्वशादेव पदार्थान्तरेष्वपि : 'थोकन्यायेन' इत्यपि पाठः । Jain Education International For Private & Personal Use Only ||| १०८ ॥ www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy