SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१०३॥ 1 नोच्छसितुमपि क्षमाः। ___ स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः- सामान्यं प्रतिव्यक्ति कथञ्चिद् भिन्नं, कथञ्चिदभिन्न कथञ्चित् तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद् व्यक्तिरुपलभ्यमानाद् व्यक्त्यन्तराद् विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामाऽऽत्मकसामान्यदर्शनात् समानेति; तेन समानो गौरयम् , सोऽनेन समान इति प्रतीतेः । न चास्य व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः ; यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, नच तेषां गुणरूपताव्याघातः । कथश्चिद् व्यतिरेकस्तु-रूपा| दिनामिव सदृशपरिणामस्याप्यस्त्येवः पृथग्व्यपदेशाऽऽदिभाक्त्वात् । विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुमर्हन्ति; यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् , तदा | तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात् । न च तस्य तत् सिद्धम् ; प्रागुक्तयुक्त्या निराकृतत्वात् । सा-18 | मान्यस्य विशेषाणां च कथश्चित् परस्पराव्यतिरेकेणेकानेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरि-18 क्तत्वाद्धि सामान्यमप्यनेकमिष्यते । सामान्यात् तु विशेषाणामव्यतिरेकेण तेषामप्येकरूपता इति । एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात् तस्य कथञ्चिद् विरुद्धधर्माध्यासितत्वम् ; सदृशपरिणामरूपस्य विसदृशपरिणामवत कथञ्चित प्रतिव्यक्ति भेदात् । एवं चासिद्धं सामा १ तेऽप्येकरूपाः' इति पाठान्तरम् । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy