SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ .८ स्याद् बोधो विविक्तोऽङ्गीकर्तव्यः । तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक्षतिभासमानत्वाद् द्वावपीतरेतरविशकलितौ; ततो न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते । इति स्वतन्त्रसामान्यविशेषवादः।। ॥१०॥ तदेतत् पक्षत्रयमपि न क्षमते लोदम् : प्रमाणबाधितत्वात् । सामान्यविशेषोभयात्मकस्यैव (च) वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणम्--अर्थक्रियाकारित्वम् ; तच्चाऽनेकान्तवादे एवाऽविकलं कल४ यन्ति परीक्षकाः। तथाहि- यथा गौरित्युक्ते खुरककुत्सास्नालाङ्गलविषाणायवयवसंपन्नं वस्तुरूपं सर्वव्य8 क्त्यनुयायि प्रतीयते, तथा महिष्यादिव्यावृत्तिरपि प्रतीयते । यत्रापि च शवला गौरित्युच्यते, तत्रापि यथा विशेषप्रतिभासः, तथा गोत्वप्रतिभासोऽपि स्फुट एव । | शवलेति केवलविशेषोच्चारणेऽपि. अर्थात् , प्रकरणाद् वा गोत्वमनुवर्तते। पिच, शबलत्वमपि नानारूपम् । तथा दर्शनात् । ततो वक्त्रा शबलेत्युक्ते क्रोडीकृतसकलशवलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते । तदेवमावालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषाऽऽत्मकत्वे, तदुभयैकान्तवादः प्रलापमात्रम् । नहि क्वचित् कदाचित् केनचित् सामान्यं विशेषविनाकृतमनुभूयते; विशेषा वा तद्विनाकृताः। केवलं दुर्नयप्रभावितमतिव्यामोहवशादेकमपलप्याऽन्यतरद् व्यवस्थापयन्ति बालिशाः; सोऽयमन्धगजन्यायः। येऽपि च तदेकान्तपक्षोपानिपातिनः प्रागुक्ता दोपाः, तेऽप्यनेकान्तवादपचण्डमुद्गरप्रहारजर्जरितत्वाद् ܂ ॥१०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy