________________
स्याद् ०
॥१०१॥
cristi गोवाsत्वपटत्वादिभेदभिन्नत्वात् (ते), तर्हि विशेषा एवं स्वीकृताः; अन्योऽन्यव्यावृत्तिहेतुत्वात् । न हि यद् गोत्वं तदश्वत्वाऽऽत्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् ; तच्च विशेषेष्वेव स्फुटं प्रतीयते; नहि सामान्येन काचिदर्थक्रिया क्रियते; तस्य निष्क्रियत्वात् ; वाहदोहादिकासु-अर्थक्रियासु विशेषाणामेवोपयोगात् । तथेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा ? । भिन्नं चेद्-अवस्तु विशेष विश्लेषणार्थक्रियाकारित्वाऽभावात् । अभिन्नं चेद् - विशेषा एव, तत्स्वरूपवत् । इति विशेषैकान्तवादः ।
नैगमनयाऽनुगामिनस्त्वाहुः - स्वतन्त्रौ सामान्यविशेषौ ; तथैव प्रमाणेन प्रतीतत्वात् । तथाहिसामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात् यावेवं तावेवं यथा पाथः पावक, तथा चैतौ, तस्मात् तथा। सामान्यं हि गोत्वादि सर्वगतम् । तद्विपरीताश्च शबलशाबलेयादयो विशेषाः । ततः कथमेषामैक्यं युक्तम् ? |
न सामान्यात् पृथग विशेषस्योपलम्भ इति चेत् ; कथं तर्हि तस्योपलम्भ इति वाच्यम् ।। सामान्यव्याप्तस्येति चेद्--न तर्हि स विशेषोपलम्भ: सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधने विविक्तविशेषग्रहणाऽभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता ; न चैतदस्ति ; विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात् । तस्माद् विशेषमभिलषता, तत्र च व्यवहारं प्रवर्त्तयता तद्ग्राहको वोधो विविक्तोऽभ्युपगन्तव्यः । एवं सामान्यस्थाने विशेषशब्द, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको
Jain Educ international
For Private & Personal Use Only
ww
॥१०१॥
elibrary.org