SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्याद् ० ॥१०१॥ cristi गोवाsत्वपटत्वादिभेदभिन्नत्वात् (ते), तर्हि विशेषा एवं स्वीकृताः; अन्योऽन्यव्यावृत्तिहेतुत्वात् । न हि यद् गोत्वं तदश्वत्वाऽऽत्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् ; तच्च विशेषेष्वेव स्फुटं प्रतीयते; नहि सामान्येन काचिदर्थक्रिया क्रियते; तस्य निष्क्रियत्वात् ; वाहदोहादिकासु-अर्थक्रियासु विशेषाणामेवोपयोगात् । तथेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा ? । भिन्नं चेद्-अवस्तु विशेष विश्लेषणार्थक्रियाकारित्वाऽभावात् । अभिन्नं चेद् - विशेषा एव, तत्स्वरूपवत् । इति विशेषैकान्तवादः । नैगमनयाऽनुगामिनस्त्वाहुः - स्वतन्त्रौ सामान्यविशेषौ ; तथैव प्रमाणेन प्रतीतत्वात् । तथाहिसामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात् यावेवं तावेवं यथा पाथः पावक, तथा चैतौ, तस्मात् तथा। सामान्यं हि गोत्वादि सर्वगतम् । तद्विपरीताश्च शबलशाबलेयादयो विशेषाः । ततः कथमेषामैक्यं युक्तम् ? | न सामान्यात् पृथग विशेषस्योपलम्भ इति चेत् ; कथं तर्हि तस्योपलम्भ इति वाच्यम् ।। सामान्यव्याप्तस्येति चेद्--न तर्हि स विशेषोपलम्भ: सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधने विविक्तविशेषग्रहणाऽभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता ; न चैतदस्ति ; विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात् । तस्माद् विशेषमभिलषता, तत्र च व्यवहारं प्रवर्त्तयता तद्ग्राहको वोधो विविक्तोऽभ्युपगन्तव्यः । एवं सामान्यस्थाने विशेषशब्द, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको Jain Educ international For Private & Personal Use Only ww ॥१०१॥ elibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy