SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ -- स्याद्० ॥१९॥ गानुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थान्तरभूतानां धर्माऽधर्माऽऽकाशकालपुद्गल जीवद्रव्याणामनुपलब्धेः। किञ्च, ये सामान्यात् पृथग्भूता अन्योऽन्यव्यात्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते, न वा? नो चेद्-निःस्वभावताप्रसङ्गः; स्वरूपस्यैवाऽभावात् । अस्ति चेत्- तर्हि तदेव सामान्यम् यतः समानानां. | भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव । अपि च, विशेषाणां व्यावृत्तिप्रत्ययहेतुत्वं लक्षणम् ; व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते ।। व्यावृत्तिर्हि-विवक्षितपदार्थे इतरपदार्थप्रतिषेधः । विवक्षितपदार्थश्च-स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी, कैथं || पदार्थन्तरप्रतिषेधे प्रगल्भते ? । नच स्वरूपसत्त्वादन्यत् तत्र किमपि, येन तनिषेधः प्रवर्तते । तत्र च व्यावृत्तौ । क्रियमाणायां, स्वात्मव्यतिरिक्ता विश्वत्रयवर्तिनोऽतीतवर्तमानाऽनागताः पदार्थास्तस्माद् व्यावर्तनीयाः; ते || च नाऽज्ञातस्वरूपा व्यावर्तयितुं शक्याः । ततश्चैकस्यापि विशेषस्य परिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात् । न चैत-18 त्पातीतिकं, यौक्तिकं वा । व्यावृत्तिस्तु-निषेधःः स चाऽभावरूपत्वात तुच्छः कथं प्रतीतिगोचरम खपुष्पवत् । तथा येभ्यो व्यावृत्तिः, ते सद्रूपा असद्रूया वा ? । असदूपाश्चेत्-तर्हि खरविषाणात् किं न व्यावृत्तिः ।। सद्रूपाश्चेत्-सामान्यमेव । या चेयं व्यावृत्तिविशेपैः क्रियते-सा सर्वासु विशेषव्यक्तिप्वेका अनेका वा ?। अनेका ॥९९॥ चेत्-तस्या अपि विशेषत्वाऽऽपत्तिः, अनेकरूपत्वैकजीवितत्वाद् विशेषाणाम् । ततश्च तस्या अपि विशेषत्वान्य Jain Educa t emational For Private & Personal Use Only www. brary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy