SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥९८|| व्याख्याने न दोषः। तथा वाचकम्-अभिधायकं, शब्दरूपम् । तदप्यवश्यम्-निश्चितः द्वयात्मक-सामान्यविशेषोभयाऽऽत्मकत्वाद्- एकानेकाऽऽत्मकमित्यर्थः । (उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकानेकाऽऽत्मकत्वं निश्चिन्वत् तदेकान्तं व्यवच्छिनत्ति) । अतः- उपदर्शितप्रकारात् , अन्यथा- सामान्यविशेषैकान्तरूपेण प्रकारेण, वाचकवाच्यक्लुप्तौ- वाच्यवाचकभावकल्पनायाम् , | अतावकानाम्- अत्वदीयानाम् , अन्ययूथ्यानां प्रतिभाप्रमादः-प्रज्ञास्खलितम् । इत्यक्षरार्थः। ( अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग् निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्प्रायोऽर्थप्रतिपादनस्य शब्दाऽधीनत्वेन वाचकस्याऽय॑त्वज्ञापनार्थम् ) तथाच शाब्दिकाः " न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते" ॥१॥इति । भावार्थस्त्वेवम्- एके तीथिकाः सामान्यरूपमेव वाच्यतया अभ्युपगच्छन्तिः ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः, सांख्याश्च । केचिच विशेषरूपमेव वाच्यं निर्वचन्तिः ते च पर्या कनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते; ते च नैगमनयानुरोधिनः काणादाः, आक्षपादाश्च ।। | एतच्च पक्षत्रयमपि किश्चित् चर्च्यते- तथाहि- संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति- सामान्य- ६ मेव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकम् ; अविशेषेण सदितिज्ञानाभिधानाऽनुवृत्तिलि ॥९८॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy