SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥९६॥ प्रतिभासते येन यदद्वैतं तद्ब्रह्मणो रूपम्' इत्याद्युक्तं शोभेत; विशेषनिरपेक्षस्य सामान्यस्य खरविषाणवदनतिभासनात् । तदुक्तम्—— 1 “ निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि " ॥ १ ॥ ततः सिद्धे सामान्यविशेषाऽऽत्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वम् । यच्चप्रमेयत्वादित्यनुमानमुक्तम्, तदप्येतेनैवापास्तं बोद्धव्यम् ; पक्षस्य प्रत्यक्षवाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । यच्च तत्सिद्धौ प्रतिभासमानत्वं साधनमुक्तम्, तदपि साधनाऽऽभासत्वेन न प्रकृतसाध्यसाधनाया - लम् ; प्रतिभासमानत्वं हि निखिलभावानां स्वतः, परतो वा । न तावत् स्वतः घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः । परतः प्रतिभासमानत्वं च परं विना नोपपद्यते इति । यच्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम् ; तदप्यन्वेत्रऽन्वीयमानद्वयाऽविनाभावित्वेन पुरुपाऽद्वैतं प्रतिवध्नात्येव । न च घटादीनां चैतन्यान्वयोऽप्यस्ति; मृदाद्यन्वयस्यैव तत्र दर्शनात् । ततो न किञ्चिदेतदपि ; अतोऽनुमानादपि न तत्सिद्धिः । किश्व, पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा । भेदे - द्वैतसिद्धिः । अभेदे त्वेकरूपताssपत्तिः ? ; तत् कथमेतेभ्योऽनुमानमात्मानमासादयति । यदि च हेतुमन्तरेणापि साध्यसिद्धिः स्यात्, तर्हि द्वैतस्यापि वाङ्मात्रतः कथं न सिद्धिः । तदुक्तम् Jain Education International For Private & Personal Use Only ॥९६॥ www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy