SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ " आहुर्विधात प्रत्यक्ष न निषेद्ध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते "॥१॥ इति वचनात् ; इति चेत् । न ; अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः । पीताऽऽदिव्यवच्छिन्नं हि नीलं-नीलमिति गृहीतं भवति ; नान्यथा; केवलवस्तुस्वरूपप्रतिपत्तेरेवाऽन्यप्रतिषेधप्रतिपत्तिरूपत्वातः मुण्डभूतलग्रहणे घटाभावग्रहणवत । तस्माद् यथा प्रत्यक्षं विधायक प्रतिपन्न तथा निषेधकमपि प्रतिपत्तव्यम् । ____ अपि च, विधायकमेव प्रत्यक्षमित्यङ्गीकृते, यथा प्रत्यक्षेण विद्या विधीयते, तथा किं नाऽविद्याऽपीति || तथा च द्वैताऽऽपत्तिः, ततश्च सुव्यवस्थितः प्रपञ्चः । तदमी वादिनोऽविद्याविवेकेन सन्मानं प्रत्यक्षात का यन्तोऽपि न निषेधकं तदिति ब्रुवाणाः कथं नोन्मत्ताः ? । इति सिद्धं प्रत्यक्षबाधितः पक्षः, इति । अनुमानवाधितश्च-- प्रपश्चो मिथ्या न भवति, असद्विलक्षणत्वात् , आत्मवत् , प्रतीयमानत्वं च हेतुब्रह्मात्मना व्यभिचारी; स हि प्रतीयते, न च मिथ्या । अप्रतीयमानत्वे त्वस्य तद्विषयवचसामप्रवृत्तेमकतैव तेषां श्रेयसी। साध्यविकलश्च दृष्टान्त:- शुक्तिशकलकलधौतेऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनीयतायाः साध्यमानत्वात् । किञ्च, इदमनुमानं प्रपश्चाद् भिन्नम् , अभिन्नं वा ?। यदि भिन्न-तर्हि सत्यमसत्यं वा ?। यदि सत्यं तर्हि | तद्वदेव प्रपश्चस्यापि सत्यत्वं स्यात् ; अद्वैतवादमाकारे खपिडपातात् । अथासत्यम् , तर्हि न किश्चित् तेन | ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥२॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy