________________
रायपसेण
इय।
॥४५॥
'तिहिं परिसाहिं, सत्तहिं अणिएहिं, सत्तहिं अणियाहिवईहिं, सोलसहिं आयरक्खदेवसाहस्सीहिं, देव्याः सहस्रं सहस्रं देवीनाम् । तथा १ तिसृभिः पर्षद्भिः, तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीस्थानीया परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षद , तया सह अपर्यालोचितं स्वल्पमपि प्रयोजन न विदधाति । अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथा-'इदमस्माकं पर्यालोचितं सम्मतमागतम् युष्माकमपीदं सम्मतं किं वा न? इति-सा मध्यमा। यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह दृढीकृतं करणायैव निरूप्यते यथा-'इदं क्रि-| यताम् इति-सा बाह्या। तथा २ अनीकानि-सैन्यानि, तानि च सप्त-तद्यथा-हयानीकम् गजानीकम् स्थानीकम् पत्त्यनीकम् वृषभानीकम् गन्धर्वानीकम् नाट्यानीकम्, तत्राद्यानि पश्चानीकानि संग्रामाय कल्पन्ते, गन्धर्व-नाट्यानीके पुनरुपभोगाय-तैः सप्तभिरनीकैः ३ अनीकानि स्वस्वाधिपतिव्यतिरेकेग न सम्यक् प्रयोजने समापतिते सत्युपकल्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह-सत्तहिं अगियाहिबईहिं । तथा ४ पोडशभिः आत्मरक्षदेवसहस्त्रैः इति-विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षा:-"कर्मणोऽण"[५-१-७२ हैमश०] इति 'अण्'-प्रत्ययः-ते च शिरस्त्राणकल्पा:-यथा हि शिरस्त्राणं शिरस्थाविद्ध प्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्रहरणाः समन्ततः पृष्ठतः पाश्वतोऽग्रतश्वावस्थायिनो विमानाधिपतेः सूर्या-1 भस्य देवस्य प्राणरक्षकाः। देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न, स्थितिमात्रपरिपालनहेतुत्वात प्रीतिप्रकर्षहेतुत्वाच्च, तथाहि-ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा ऊर्ध्वस्थिता अवतिष्ठमानाः स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषामसहमानानां क्षोभमापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति । एते च नियतसंख्याकाः सूर्याभस्य
Jain Educat
onal
For Private Personal Use Only
wilejainelibrary.org