SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥२४॥ बहजणबहमाणपूइए सव्वगुणसमिद्ध खत्तिए भुइए मद्धाभिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे "खेमंकरे "खेमंधरे "मणुस्सिदे जणवयपिया जणवयपाले राज्यसूचकैलेक्षणैर्विराजितानि अङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजिताङ्गमङ्गः। तथा १बहुभिर्जनैःबहुमानेन-- अन्तरङ्गप्रीत्या पूजितो बहुजनबहुमानपूजितः । कस्मात् ? इत्याह-२सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितः गुणवत्सु प्रायः सर्वेषामपि बहुमानसम्भवात् । तथा ३क्षत्रस्थापत्यं क्षत्रियः "क्षत्रादियः"[६-१-९३ हैमश०] इति 'इय' प्रत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रसूतोऽपि न हीनजातीयः, किन्तु उत्तमजातीयः इत्यावेदितम् । तथा ४ मुदितः सर्वकालं हर्षवान् , प्रत्यनीकोपद्रवासम्भवात् , तदसम्भवश्च प्रत्यनीकानामेवाभावात् । तथा चाह-५ प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैः 'नान्यथाऽस्माकं गतिः' इति परिभाष्य मूर्धभिः-मस्तकैरभिषिक्तः-पूजितो मृर्द्धाभिषिक्तः। तथा ६ मातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोपविकलः इत्यावेदितः। तथा ७ +दयाप्राप्तः स्वभावतः शुद्धजीवद्रव्यत्वात् । तथा ८ सेवागतानामपूर्वापूर्वनृपाणां सीमां-मर्यादां करोति यथा 'एवं वर्तितव्यमेवं न' इति सीमङ्करः । तथा ९ पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति-पालयति न तु विलुम्पतीति सीमन्धरः । तथा १० क्षेम-वशवत्तिनां उपद्रवाभावं करोति क्षेमङ्करः चौरादिसंहारात् । तथा ११ तद् धारयति आरक्षकनियोजनात् क्षेमन्धरः । अत एव १२ मनुष्येन्द्रः। तथा १३ जनपदस्य पितेव जनपदपिता । कथं पितेव ? इत्यत आह-१४जनपदपाल:-जनपदं पालयतीति जनपदपालः, ततो भवति जनपदस्य पितेव । * " 'मुइएत्ति निर्दोषमातृकः । यदाह-मुइओ जो होइ जोणिसुद्धो"-औ० वृ० । + " 'दयपत्ते'त्ति प्राप्तकरुणागुणः "-औ० वृ० । JainEducation tremitional For Private Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy