________________
रायपसेणइयं।
॥१६॥
सुरम्मा संपिंडियदरियभमर-महुयरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजतदेसभागा
अम्भितरपुप्फफला बाहिरपत्तोच्छण्णा पत्तेहि य पुप्फेहि य उच्छन्नपलिच्छिन्ना 'नीरोगका "अकंटका अतिकम् उन्नतशब्दकम् मधुरस्वरं च नादितम्-लपितं येषु ते तथा-अत एव १ सुरम्याः सुष्ठु रमणीयाः-अत्र शुकाः कीराः, बहिणो मयूराः, मदनशालिकाः शारिकाः, कोकिला:-पिकाः, चक्रवाक-कलहंस-सारसाः प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः। तथा २ सम्पिण्डिताः-एकत्र पिण्डीभूताः दृप्ताः-मदोन्मत्तया दर्पाध्माता भ्रमरमधुकरीणां पहकराः सङ्घाता:-"पहकर-ओरोह| संघाया"[ ] इति *देशीनाममालावचनात्-यत्र ते सम्पिण्डितप्तभ्रमरमधुकरीपहकराः, तथा परिलीयमाना:-अन्यतः आगत्याश्रयन्तः
मत्ताः पदपदाः कुसुमासवलोला:-किजल्कपानलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जदेशभागाः। गमकत्वादेवमपि समासः ततो भूयः पूर्वपदेन विशेषणसमासः । तथा ३ अभ्यन्तराणि अभ्यन्तरभागवःनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा।४ बहिस्तः पत्रैश्छन्नाः-व्याप्ताः बहिःपत्रच्छन्नाः । तथा ५ पत्रैश्च पुष्पैश्च अवच्छन्नपरिच्छन्नाः-अत्यन्तमाच्छादिताः। तथा ६ नीरोगकाः-रोगवर्जिताः । ७ अक-१० ___* आचार्यहेमचन्द्रविरचितायां देशीनाममालायां नैतद् वचनं दृश्यते । अत एतद् वचनं संभवेत् ततोऽपि प्राचीनतरायां कस्यांचिद् देशीनाममालायाम् । धनपाल-हेमचन्द्रनिर्मितयोः पाइअलच्छी-देशीनाममालयोः 'ओरोह' शब्दो न दृश्यते समूहवाची अतः अस्मिन् वचने 'पहकरपयर-ओह-संघाया' इति पाठः साधुतरः स्यात् । “पहयरो गणो पयरो। ओहो निवहो संघो संघाओ"-पाइअल० अं०१८। "पग्गेज-पाइयरा णियरे"-दे० ना० वर्ग ६ गा० १५।
Jain Education
For Private
Personel Use Only