________________
रायसेनइयं ।
'निचं मउलिया निच्चं लवइया निच्चं श्रवइया निच्चं गुलइया "निच्चं गोच्छिया 'निच्चं जमलिया 'निच्चं जुयलिया 'निच्चं विणमिया 'निच्चं पणमिया "निच्चं सुविभत्तपडिमंजरिवर्डिसयधरा "निच्चं कुसुमियमउलिय-लवइय-थवइय-गोच्छिय- जमलिय- जुयलिय - विणमिय- पणभिय- सुविभत्तपडिमंजरिवर्डिसयधरा "सुक-वरहिण-मयणसलागा - कोइल - कोरुग-कोभव- भिंगारक - कोंडलग - जीवंजीवक - नन्दीमुख-कविल-पिङ्गलक्खग - कारंडव-चक्रबाक - कलहंस- सारस अणेगस उणगणमिहुणवियरियस होन्नइयमहुरसरणाइया
१ नित्यं - सर्वकालं मुकुलितानि, मुकुलानि नाम कुद्मलानि कलिका इत्यर्थः । २ पल्लविताः । ३ नित्यं स्तवकिताः स्तबकभारवन्त इत्यर्थः । ४ नित्यं गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ । ५ नित्यं गोच्छवन्तः ६ नित्यं यमलम् - नाम - समानजातीययोयुग्मम् तत् संजातमेपामिति यमलिताः । ७ नित्यं युगलिता युगलम् - सजातीयविजातीययोर्द्वन्द्वम् तदेषां संजातमिति युगलिताः । तथा ८ नित्यं - सर्वकालं फलभरेण विनताः - ईपन्नताः, तथा ९ नित्यं महता फलभरेण प्रकर्षेणातिदूरं नताः प्रणताः । तथा १० नित्यं सर्वकालं सुविभक्त:- सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिणः । एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः । साम्प्रतं केषाञ्चिद् वृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह- ११ 'निच्चं कुसुमियम उलिय' इत्यादि । किमुक्तं भवति - केचित् कुसुमिताद्येकैकगुणयुक्ताः केचिद् समस्तकुसुमितादिगुणयुक्ता इति, अत एव 'कुसुमिय-मउलिय' - इत्यादिपदेषु कर्मधारयः । तथा १२ शुक्र - बर्हिण - मदनशालिका - कोकिला - कोरक - कोभव- भिङ्गारक - कोण्डलक- जीवजीवक - नन्दीमुख- कपिल - पिङ्गलाक्ष-कारण्डव-चक्रवाक कलहंस-सारसाख्यानामनेकेषां शकुनगणानां मिथुनैः - स्त्रीपुंसयुक्तैर्यद् विचरितम् - इतस्ततो गमनम् यच्च शब्दो
Jain Education emonal
For Private & Personal Use Only
॥१५॥
www.jainelibrary.org