________________
रायपसेग
अणईइपत्ता 'निद्भूयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलसुकुमालपवालसोभियपवरवरंकुरग्गसिहरा निचं कुसुमिया
॥१४॥
वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा-किमुक्तं भवति ?-न प्रबलेन खरपरुपेण वातेन तेषां पत्राणि भूमौ निपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति । १ 'अच्छिद्रपत्राः' इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता न विद्यते ईतिः-गड्डरिकादिरूपा येषां तानि अनीतीनि, अनीतीनि पत्राणि येषां ते अनीतिपत्राः, अनीतिपत्रत्वाच्च ५ अच्छिद्रपत्राः। २ निर्द्धतानि-अपनीतानि जरठानि पाण्डुपत्राणि येभ्यस्ते निर्धतजरठपाण्डुपत्रा:-किमुक्तं भवति ?-यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निङ्ख्य निद्धृय भूमौ पातितानि, भूमेरपि च प्रायो निर्धय निर्धूयान्यत्रापसारितानीति ।३ नवेनप्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा:-अलब्धमध्यभागाः सन्तो दर्शनीयाः नवहरितभासमानपत्रमारान्धकारगम्भीरदर्शनीयाः तथा ४ उपविनिर्गतः निरन्तरविनिर्गतैरिति भावः, नवतरुणपत्रपल्लवैः तथा कोमलैः-मनोज्ञैः उज्ज्वलैः-शुद्धैः चलभिः-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लबविशेषैः तथा सुकुमारैः प्रवालैः-पल्लवाङ्करैः शोभितानि वराङ्कराणि-बराङ्करोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लबकोमलोन्ज्वलचलत्किशलयसुकुमालप्रवालशोभितवराङ्कराग्रशिखराः। इह अङ्कर-प्रवालयोः कालकृतावस्थाविशेषाद् विशेषो भावनीयः। तथा ५ नित्यम् सर्वकालम्-पट्खपि ऋतुषु इत्यर्थः । ६ कुसुमिताः कुसुमानि-पुष्पाणि संजातान्येषामिति कुसुमिताः, तारकादिदर्शनाद 'इत'प्रस्थयः ।
Jain Education
manal
For Private Personel Use Only
Hijainelibrary.org