________________
रायपसण-
इयं।
॥१३॥
फलमन्तो-बीयमन्तो अणुपुव्विसुजायरुइलयभावपरिणया एंगखंधी अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारियअगिज्झघणविपुलवदृखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता भूम्नि वा 'मतुप्' प्रत्ययः।१ आनुपूर्व्या-मूलादिपरिपाटथा सुष्टु जाता आनुपूर्वीसुजाताः रुचिराः-स्निग्धतया देदीप्यमानच्छविमन्तः तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च आनुपूर्वीसुजातरुचिराःते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभाव-५ परिणताः ते तथा। २ तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते *चास्य स्त्रीत्वमिति 'एगखंधी' इति सूत्रपाठः। ३ तथा अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपः-विस्तारो येषां ते तथा। ४ तिर्यग् बाहुद्वयं प्रसारणप्रमाणो व्यामः-व्यामीयन्ते परिच्छिद्यन्ते रज्ज्वादि अनेनेति व्यामः-बहुलवचनात् करणे "क्वचित्" [५-१-१७१ हैमश०] इति 'ड'प्रत्ययः-अनेकनरव्यामैःपुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयः घनो-निविडो विपुल:-विस्तीर्णो वृत्तस्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः। तथा ५ अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्रा:-किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतो वा १० गडरिकादिरीति+रुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यनित्यच्छिद्रपत्राः अथवा एवं नाम अन्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जातानि येन मनागपि अपान्तरालरूपं छिद्रं नोपलक्ष्यते इति । तथा चाह-६ 'अविरलपत्ता' इति, अत्र हेतौ प्रथमा, ततोऽयमर्थ:-यत: अविरलपत्रा अतोऽच्छिद्रपत्राः। अविरलपत्राः इत्यपि कुतः' इत्याह-७ अवातीनपत्राः वातीनानि-बातोपहतानि
* अस्य 'खंध' शब्दस्य। + अतिवृष्टि-अनावृष्टिप्रमुखोपद्रवविशेषः ईतिः ।
Jain Educati
onal
For Private & Personal Use Only
|www.jainelibrary.org