________________
रायपसेण- इयं।
भत्तरायमग्गा छेयायरियरइयदढफलिह-इंदकीला "विवणि-वणिच्छित्त-सिप्पिआइण्णनिव्वुयसुहा "सिंघाडग-तिय-चउक-चचर-पणियापणविविहवसुपरिमंडिया सुरम्मा नैरवइ-पविइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजर-रहपहकर-सीय-संदमाणीआइण्णजाणजोग्गा विमउलनवनलिणसोभियजला पंडुरवरभवणपंतिसुविभक्ताः-विविक्ताः राजमार्गा यस्यां सा तथा। ततः पदद्वयस्य कर्मधारयः । २५छेकेन-निपुणेन आचार्यण-शिल्पोपाध्यायेन रचितो दृढः-बलवान् परिधः-अर्गला इन्द्रकीलश्च-संपाटितकपाटद्वयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा । २३विपणीनां-वणिक्-५ पथानां हट्टमार्गाणाम् वणिजां च क्षेत्रं-स्थानं सा विपणिवणिक्षेत्रं तथा शिल्पिभिः कुम्भकारादिभिर्निवृतैः-सुखिभिः शुभैः-स्वस्वकर्मकुशलैराकीर्णा । प्राकृतत्वाच्च सूत्रेऽन्यथा पदोपन्यासः ततः पूर्वपदेन कर्मधारयः।२७शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु यानि विविधानि वसूनि-द्रव्याणि तैश्च परिमण्डिता। शृङ्गाटकम्-त्रिकोणं स्थानम् , त्रिकम्-यत्र रथ्यात्रयं मिलति, चतुष्कम्-रथ्याचतुष्कमीलनात्मकम् , चत्वरम्-बहुरथ्यापातस्थानम् । २८सुरम्या-अतिरम्या। २९नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा । ३० अनेकैर्वरतुरगाणाम् , मत्तकुञ्जराणाम् , रथानां च पहकरैः-सङ्घातैः तथा शिविकाभिः स्पन्दमानीभिः यानः युग्यैश्च आकीर्णा-व्याप्ता या सा तथा । आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात् । तत्र शिबिकाः कूटाकारेणाच्छादिता जम्पानविशेषाः,स्पन्दमानिका:-पुरुषप्रमाणा जम्पानविशेषाः,यानानि-शकटादीनि,युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव । ३१विमुकुलैः-विकसितैर्नवैनलिनैः-कमलैः शोभितानि जलानि यस्यां सा तथा।। ३२ पाण्डुरवरभवनपक्तिमहिता ।
Jain Educatonemoga
For Private & Personel Use Only
www.jainelibrary.org